________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
तदनवकाशात् । न ह्यपरसामान्य व्यावृत्तिबुद्धिहेतुत्वाद्विशेषाख्यामपि लभमानमपह्रोतुं शक्य, तस्य सामान्यैकरूपत्वेऽपरविशेषाभावप्रसङ्गात् , तदपरविशेषरूपत्वेऽपरसामान्याभावापत्तेः, तदुभयरूपत्वे सामान्यविशेषरूपयोः कथंचित्तादात्म्यस्यैवाभ्युपगमनीयत्वात् , तदेकार्थसमवायस्य कथंचिदेकद्रव्यतादात्म्यादपरस्यासंभवात् , सामान्यस्यैवानुवृत्तव्यावृत्तप्रत्ययहेतुत्वेन सामान्यविशेषोभयाकारस्येतृत्वाच्च । न तयोराकारयोरन्यत्रैकार्थे समवायः परस्परं वा शक्यो वक्तुं, यतस्तद्वदवयवावयव्यादीनां कथंचित्तादात्म्यं वृत्तिः प्रकृतदूषणोपद्रुता स्यात् । किं चावयवादिभ्योवयव्यादीनामत्यन्तभेदे देशकालाभ्यामपि भेदः स्यात् ॥ ६२ ॥
'एकस्येति' एकस्यावयव्यादेर्भागाभावाद्देशाभावादनेकत्रावयवादी वृत्तिन भवति । भवति चेत्तदा प्रत्येकमनेकावयवादिपर्याप्तवृत्तित्वाबहून्यवयव्यादीनि स्युः, देशतो वृत्तिश्च तत्र नावयव्यादीनां, तद्देशानभ्युपगमात् , अभ्युपगमेऽनवस्थाद्यापत्तेः, भागित्वात् कथञ्चिद्देशित्वाद्वाऽस्यावयव्यादेनैकत्वं स्यादित्ययं वृत्तेर्दोषो नाहते मते भवतीति कारिकासझेपार्थः । प्रकारान्तराभावादिति संयोगवृत्तौ देशकाान्यतरप्रकारस्यैव दर्शनात् प्रकारद्वयविशेषनिषेधे वृत्तिसामान्यनिषेधपर्यवसानादित्यर्थः । 'प्रकारान्तरमिति' देशकात्स्यविनिर्मुक्तः सम्बन्धप्रकार इत्यर्थः। एतदेव हि विचार्यत इति समवायोऽपि हि घटे घटत्वस्य कात्स्न्येन तन्तुषु च पटस्य दशाद्यवच्छेदेनाभावाद्देशेनाभ्युपगम्यत इति तत्रापि प्रकारद्वयावकाशेन विचारस्य बद्धास्पदत्वादिति भावः । वस्तुत एकत्र तन्तौ न पटः किन्तु यावत्स्विति प्रतीतेः | प्रत्येकावृत्तेरित्यादिन्यायाच्च प्रकारद्वयं समवायवृत्तौ प्रसिद्धस्थल एवौपढौकत इति तदविरोधो भेदाभेदाभ्युपगमं विना दुरुपपाद | इत्याद्युक्तं वादमालायाममामिः । सर्वथाऽन्यत्वासिद्धेरिति, तत्काले तत्परिणामेन तदात्मकत्वेन विरोधादतिप्रसङ्गस्य
For Private And Personal Use Only