________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विवादापन्नेभ्यो नैकान्तेनान्यत्वं तत्र वृत्त्युपलब्धेः । यस्य तु यतोन्यत्वैकान्तस्तस्य तत्र न वृत्त्युपलब्धिः । यथा हिमवति विन्ध्यस्य । वृत्त्युपलब्धिश्चावयव्यादेः स्वाश्रयेषु । तस्मान्नैकान्तेनान्यत्वम् । इत्यनुमानेन तन्नानात्वपक्षस्य बाधितत्वात् कालात्ययापदिष्ट भिन्नप्रतिभासत्वादिति हेतुः । नन्विदमनुमानमसम्यक्, स्थाल्यां दध्नाऽनैकान्तिकत्वात् ततोन्यस्यापि दनस्तत्र वृत्त्युपलब्धेः । संयोगो हि वृत्तिरर्थान्तरभूतयोरेव प्रतीयते नान्यथेति न मन्तव्यं, संयोगिनोः संयोगपरिणामात्मनोः सर्वथान्यत्वासिद्धेरन्यथा तदभावप्रसङ्गात् । ताभ्यां भिन्नस्य संयोगस्योत्पत्तौ हि कथमेकस्यान्यत्र संयोग इति व्यपदेशो यतः स एव वृत्तिः स्यात् ? ताभ्यां तस्य जननात्तथा व्यपदेश इति चेत्, न, कर्मणा कालादिना च तज्जननात्तथा व्यपदेशप्रसङ्गात् । तयोः समवायिकारणत्वातस्य तथा व्यपदेश इति चेत्, कुतः समवायिकारणत्वं तयोरेव न पुनः कर्मादेरिति नियमः ? इह संयोगिनो: संयोग इति प्रत्ययात्तत्र तस्य समवायसिद्धेरिति चेत्, स तर्हि समवायः पदार्थान्तरं कथमत्रैवेद्देदमिति प्रत्ययं कुर्यान्न पुनः कर्मादिषु भेदाविशेपीति न बुद्धयामहे । तैरेव समवायिभिर्विशेषणविशेष्यभावसिद्धेः समवायस्य तत्रैवेहेदमिति प्रत्ययोत्पत्तिर्न तु कर्मादिषु तदसिद्धेरिति चेत् स एव कुतः सर्वत्र न स्यात् ? तादृगदृष्टविशेषनियमादिति चेत् किं विशेषणविशेष्यभावेन समवायेन संयोगेन वा ? तादृगदृष्टविशेषादेव समवायविशिष्टाः समवायिन इति प्रत्ययस्येद्देदमिति विज्ञानस्यात्रेदं संयुक्तमिति बुद्धेश्व जननप्रसङ्गात् । सर्वस्य वा प्रत्ययविशेषस्यादृष्टविशेषवशवर्तित्वसिद्धेः किं पदार्थभेदप्रभेदपरिकल्पनया ? इति विज्ञानवादप्रवेशः स्यात्, तस्यैवादृष्टविशेषत्वसिद्धेः, चेतना कर्मेति विज्ञानवादिभिरपि प्रतिपादनात् । तेषां वासनाविशेष एव दृष्टम् । स च पूर्वविज्ञानविशेषः । इति न विज्ञामात्राददृष्टमन्यत् स्यात् । ननु च नाप्रबुद्धा वासना प्रत्ययविशेषं प्रसूते सकृत्सर्वप्रत्ययविशेषप्रसङ्गात् प्रबुद्धा तु तमुपजनयन्ती
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir