________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandi
ॐॐॐॐॐॐ
सह्यविन्ध्ययोः। अभिन्नदेशत्वं च प्रकृतयोः । तस्मात्तादात्म्यम् । इत्यनुमानेन पक्षस्य बाघेति चेत् , न, शास्त्रीयदेशाभेदस्यासिद्धत्वात् , कार्यस्य स्वकारणदेशत्वात् । कारणस्यापि स्वान्यकारणदेशत्वात् । एतेन गुणगुणिनोः सामान्यतद्वतोश्च देशभेदस्य प्रतिपादनात् , लौकिकदेशाभेदस्य तु व्योमात्मादिभिर्व्यभिचारादस्यानुमानस्यासमीचीनत्वात् प्रकृतपक्षबाधकत्वासंभवात् । कथंचित्तादात्म्यस्य प्रत्यक्षतः प्रतीतेः सर्वथा भेदपक्षस्य बाधेति चेत्, न, तद्विरोधात् । तत एव भेदो मा भूदिति चेत् , न, भेदस्य पूर्वसिद्धत्वात् तादात्म्यस्य पूर्वसिद्धरसिद्धेः । सिद्धौ वा कार्यकारणादिविरोधात् धर्मधर्मित्वाधिकरणाधेयतादिविरोधात् क्रियाव्यपदेशादिभेदविरोधाच तयोर्न
तादात्म्यं, भेदतादात्म्ययोयधिकरण्याच्च परस्परविरोधाच्छीतोष्णस्पर्शवत् । तयोरैकाधिकरण्ये संकरव्यतिकरापत्तिः । तदनापत्तौ पक्ष★ा द्वयोक्तदोषानुपङ्गः । प्रत्येकं तद्विरूपत्वोपगमे वाऽनवस्थानादप्रतिपत्तिरभावश्च ॥ ६१ ॥ इति वैशेषिकस्य अवयवगुणसामान्यतद्वतां | व्यतिरेकैकान्त(त्व)माशक्य प्रतिविधत्ते
यदीयं नामापि स्मृतिमुपगतं विनपटलीं । महामन्त्रप्रायं प्रशमयति दोषामिव रविः॥
मुदोऽसंख्याः शङ्केश्वरविभुरसौ यच्छतु पराः । जरासन्धक्षिप्ताच्युतबलजरातङ्कहरणः॥१॥ चतुर्थे कार्यकारणादिभेदाभेदस्याद्वादसाधनार्थमुपक्रमः "कार्यकारणेत्यादिकारिकया" ॥ तद्भेदैकान्ताभ्युपगमप्रदर्शनं तद्पणमग्रिमकारिकायाम् ।। गुणशब्दान्नित्यगुणप्रतिपत्तिरिति, अनित्यगुणस्य कार्यपदेन पूर्वमेव ग्रहणादत्र गुणपदस्य विशेषपरत्वादिति भावः । अर्थप्रत्यय इति, अर्थपदस्य वैशेषिकपरिभाषया द्रव्यादित्रयार्थत्वात्तत्रयप्रतीतिरित्यर्थः । 'क्रमेणेति' एकत्रैव वस्तुनि देशसन्निकर्षविप्रकर्षाभ्यामेकस्यापि प्रतिपत्तुः कालभेदेन भिन्नप्रतिभाससम्भवादित्यर्थः । भिन्न
SECROSCARROCRACCit%
For Private And Personal Use Only