________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
पवित्र पत्रं मे विशदशतपत्रं श्रुतसुरी-करक्रीडापात्रं प्रमदमतिमात्रं जनयतु ॥
सुवाल्लभ्याः सभ्या इदमगुरुमाज्ञासिषुरितः प्रकृष्टं कल्पद्रोरपि फलमलभ्यं कृतधियाम् ॥२॥ कृत्वा यत्नमनेकपण्डितवतीमध्यास्य काशीमभू-भट्टाचार्यपुरन्दरेभ्य इह यस्तर्केष्वधीती भृशम् । तत्स्पर्द्धा वितनोति कोऽपि जटिलो यद्यल्पपाठस्मयी। तत्कि कुम्भकृता भविष्यति कलिःसाई त्रिलोकीकृतःशाद अधीतास्तर्काः श्रीनयविजयविज्ञाहिभजन-प्रसादाद ये तेषां परिणतिफलं शासनरुचिः । ___ इहांशेनाप्युच्चैरवगमफला या स्फुरति मे । तया धन्यं मन्ये जनुरखिलमन्यत् किमधिकम् ॥ ४॥”
----- Raom । इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारिभद्दारकश्रीहीरविजयसूरीश्वरशिष्यमुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणिशिष्यालङ्कारपण्डितश्रीजीतविजयगणिसतीर्थ्यशेखरपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्रीतात्पर्यविवरणे तृतीयः परिच्छेदः॥
॥ अष्टसहस्रीतात्पर्यविवरणे तृतीयः परिच्छेदः समाप्तः ॥
For Private And Personal Use Only