________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
तात्वस्य घटत्वादिनानास्वरूपत्वकल्पने गौरवस्य पटत्वाभावस्वरूपत्वकल्पने चातिप्रसङ्गस्य दुरुद्धरत्वात् , न च विशिष्टाविशिटभेदे विशिष्टसत्तानिश्चयेऽपि सत्तासंशयः स्यादिति वाच्यम् , तवापि विशिष्टामावस्यातिरिक्ततया सत्तानिश्चयत्वस्य विशिष्टसत्तासंशयव्यावृत्तत्वाभावात् विशिष्टसत्तानिश्चयत्वेन पृथकप्रतिबन्धकत्वकल्पनध्रौव्ये मयाऽपि तथात्वस्य व्यावर्तकतयैव वा प्रतिबन्धकत्वस्य वाच्यत्वादिति दिग् । एवं शुद्धपर्यायात्मना प्रतिक्षणमुत्पादव्ययौ प्रत्यभिज्ञाद्यनुरोधेन च द्रव्यात्मना धौव्यं ध्रुवमिति सिद्ध्यति सर्वत्र त्रैलक्षण्यम् , एतेन यदुच्यते परैर्विशिष्टभेदाभ्युपगमे तत्तेदन्ताविशिष्टयोरपि भेदे प्रत्यभिज्ञामात्राप्रामाण्ये स्थैर्योच्छेद इति, तदपास्तं द्रष्टव्यम् , प्रत्यभिज्ञाया भेदाभेदसंसर्गकत्वस्य स्थैर्यस्य चोत्पादव्ययसंवलितस्यैव प्रामाणिकत्वात् , एतेनैव च सोऽयं देवदत्त इति वाक्ये तत्कालविशिष्टैतत्कालविशिष्टयोरभेदस्य विरोधाद्विशेषणविशेष्यभावानुपपत्तेः शुद्धदेवदत्तव्यक्तौ लक्षणा स्वीकर्तव्येत्येतदृष्टान्तबलेन तत्त्वमसीत्यादिवाक्येऽपि परोक्षत्वविशिष्टचैतन्यस्य तत्पदार्थस्य प्रत्यक्षत्वविशिष्टचैतन्यरूपत्वंपदार्थेन सहाभेदविरोधादखण्डब्रह्मणि जहदजहल्लक्षणा स्वीकर्तव्येति तत्त्वंपदार्थशोधनं कुर्वद्भिर्वेदान्तिभिर्यदुच्यते, तदपास्तं द्रष्टव्यम् , सोऽयं देवदत्त इति वाक्ये लक्षणाभ्युपगमे बीजाभावात्तत्तेदंताविशिष्टयोर्भेदाभेदस्य सार्वजनीनत्वेन विरोधाभावात् , नहि प्रत्यक्षसिद्धेऽर्थे विरोधो नाम, न चापरार्थप्रत्यक्षात्मकं वाक्यं न प्रत्यक्षाभं, न च शुद्धब्रह्मणि शक्यसम्बन्धरूपा बोध्यसम्बन्धरूपा वा लक्षणाऽपि सङ्गच्छते, तात्त्विकेऽर्थेऽनिर्वचनीयसंसर्गस्य युक्त्यसहत्वात् , मायिकसंसर्गस्यापि मायिकत्वात् , तत्र युक्त्यसहत्त्वं भूषणं नतु वृषणमिति चेत् , तमुधिष्ठानपर्यन्तमपि मायिकत्वमेव युक्तं, "मायोपमं वै सकलं जगत्" इति श्रुत्यवलम्बनस्य सत्त्वादिति माध्यमिकमतमेव स्वीक्रियतां, मुच्यतां वेदान्ताश्रयेणार्द्धज
For Private And Personal Use Only