________________
Shri Mahavir lain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
भावत्वे सकलार्थसार्यप्रसङ्गात् । तथा तत्त्वस्य त्रयात्मकत्वसाधनेनन्तात्मकत्वसाधने च नित्यानित्योभयात्मकत्वसाधनमपि प्रकृतं न विरुध्यते, स्थित्यात्मकत्वव्यवस्थापनेन कथंचिन्नित्यत्वस्य विनाशोत्पादात्मकत्वप्रतिष्ठापनेन चानित्यत्वस्य साधनात् । ततः सूक्तं सर्व वस्तु स्यानित्यमेव, स्यादनित्यमेवेति। एवं स्यादुभयमेव, स्यादवक्तव्यमेव, स्यान्नित्यावक्तव्यमेव, स्यादनित्यावक्तव्यमेव, स्यादुभयावक्तव्यमेवेत्यपि योजनीयम् । यथायोगमेतत्सप्तभङ्गीव्यवस्थापनप्रक्रियामपि योजयेन्नयप्रमाणापेक्षया सदायेकत्वादिसप्तभङ्गीप्रक्रियावत् ॥६॥
नित्यायेकान्तगर्तप्रपतनविवशान्प्राणिनोऽनर्थसार्था-दुद्धत नेतुमुच्चैःपदममलमलं मङ्गलानामलङ्घयम् ।। स्याद्वादन्यायवर्त्म प्रथयदवितथार्थ वचः स्वामिनोऽदः, प्रेक्षावत्त्वात्प्रवृत्तं जयतु विघटिताशेषमिथ्याप्रवादम् ॥१॥
इत्याप्तमीमांसालंकृतौ तृतीयः परिच्छेदः । ३ ।
SARKARICANSARSONAL
उत्पादादीनां त्रयाणामेकधर्मिण्येककालवृत्तित्वं व्यवस्थापयितुं युक्तिमाह-'घटमौलीत्यादि''पयोव्रत' इत्यादिकारिकाद्वयेन, एकस्यैककालीनकार्यत्रयजनकत्वाद्वतत्रयव्यवस्थापकत्वाच्च त्रयात्मकत्वमित्येतदुभयस पार्थः ॥ अत्रास्माभिः स्तम्भतीर्थनगरे गोपालसरस्वत्यायेकान्तवादिपण्डितचक्रवालं प्रत्यवलम्बितं पत्रं यथा॥ “ऐन्द्री श्रीर्यत्पदाम्भोज-सेवाहेवाकिताफलम् ॥ महतां महनीयं तं, महावीरमुपास्महे ॥१॥ इह हि बहवः प्राणिनः साहजिकाभिसंस्कारिकानेकसङ्कल्पविकल्पकल्लोलाकुलितचेतस उत्पादव्ययध्रौव्यात्मकं सर्व वस्त्वनुभवन्तोऽपि सम्यग्दर्शनजीवातुतथा
For Private And Personal Use Only