SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नेकत्वयोर्विरोधो वारंवारमेव निराकृतः, सैव रीतिः सत्त्वासत्वयोः प्रतीयतामित्यनेनोक्तम् , तत एव कार्यत्वकथञ्चित्सत्त्व योतिरेव, भाष्ये न तादृक् सर्वथाऽसत् , कारणवत् कारणापेक्षोत्पत्तिकं, वैलक्षण्यानवधारणं निवन्धनमिति मृत्पि ण्डस्थासकोशकुशूलादिनियतोपादानप्रवृत्तिनिवन्धनं नान्वयः, किन्तु वैलक्षण्यस्य भेदस्यानवधारणमिति सौगताशङ्का । है तत्राह-इति चेत् तद् यदीत्यादि, सदृशापरापरोत्पत्तिविप्रलम्भात् सदृशापरापरोत्पत्तिदोषसधीचीनानादिवासनाप्र सूताभेदज्ञानादित्यर्थः । उपादानत्वं प्रसज्यतेति कार्यागृहीतभेदक्षणस्योपादानत्वादित्यर्थः, अभावाव्यवधानं चेति अन्तराविसदृशक्षणोत्पत्तिव्यवधानाभावश्चेत्यर्थः । अपि न विशेष इति न बिशेष इत्यर्थः । अन्तराले सादृश्यप्रतियोगिनां मध्ये, अभावस्य दैशिकामावस्य, न पुनर्देश इति तथा च स्थासदेशे मृत्पिण्डाभावसत्त्वादेशिकाभावेन तत्रापि व्यवधानादुपादानत्वं न स्यादित्यर्थः । अतिरिक्तदेशेन भिन्नदेशत्वाभाव उपादानतानिमित्तमित्याशङ्कते सर्वस्वलक्षणानामिति भिन्नसन्ततिक्षणेष्वतिप्रसङ्गान्न किश्चिदेतदिति समाधत्ते कथमेवमित्यादि, विशेषः क्षणानामुपादानताऽनुपादानतयोर्भेदः, सति सादृश्यविशेष इति निश्चिते सादृश्यविशेष इत्यर्थः । अन्यथा वक्ष्यमाणाविशेषेण पौनरुक्त्यप्रसङ्गात् , तदनुमानप्रसङ्गादभेदाध्यवसायेनोपादानोपादेयभावनियामकसादृश्यविशेषानुमानप्रसङ्गात् , तद्वत् सम्प्रतिपन्नैकसन्तानवत् , यत उक्तहेतोस्वैलक्षण्यात् , अयं प्रत्यक्षसिद्धः, अविचारकत्वप्रसङ्गादिति यदेव पृष्टं तस्यैवोत्तरत्वप्रदानादित्यर्थः। ननु तन्तुभ्यः पटादिरिवेत्यादिनियमः कुतो दृश्यत इति न पृष्टं, येन तत्र तथा दर्शनस्य हेतुत्वोक्तावविचारकत्वम् , किन्तु तन्नियमहेतुप्रश्न एव सः, तत्र चान्वयव्यतिरेकशालित्वमेव तद्धेतुरित्युत्तरं, तत्सिद्धिश्च तथा दर्शनादिति न प्रश्नोत्तरवैयधिकरण्यमित्याशंक्य तदपि ACCURRCARC For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy