________________
Shri Mahavir Jain Aradhana Kendra
www.cbabirth.org
Acharya Shri Kailassagersuri Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥२६॥
परिच्छेदस्तृतीयः॥
यथा विनाशं प्रत्यन्यानपेक्षं विनश्वरम् । तथैव स्थिति प्रत्यनपेक्षं स्थास्नु वस्तु । इति स्वभावहेतुः । न चायमसिद्धः, तद्धेतोरकिश्चित्क- रत्वात् तद्व्यतिरिक्ताव्यतिरिक्ताकरणात् इत्यादि सर्व समानम् । न हि वस्तुनो व्यतिरिक्ता स्थितिस्तद्धेतुना क्रियते, तस्यास्थास्नुत्वापत्तेः। स्थितिसंबन्धात्तस्य स्थास्नुतेति चेत्, न, स्थितितद्वतोः कार्यकारणभावासंभवात् सहभावात्तयोः, असहभावे स्थितेः पूर्व तत्कारणस्यास्थि| तिप्रसक्तः, स्थितेरपि स्वकारणादुत्तरकालमनाश्रयत्वानुषङ्गात् । तयोराश्रयाश्रयिभावः संबन्ध इति चेन्न, अर्थान्तरभूतयोः कार्यकारणभावाभावे तदभावाभ्युपगमात् कुण्डबदरवत् । तदव्यतिरिक्ता स्थितिस्तद्धेतुना विधीयते इत्ययमपि पक्षो न श्रेयान् , तद्वैयर्ध्यात्, स्थितिस्वभावस्यापि स्थितिकरणे तत्कारणानामनुपरमप्रसङ्गात् , स्वयमस्थितिस्वभावस्य स्थितिकरणायोगादनुत्पत्तिस्वभावस्योत्पत्तिकरणायोगवत् । ततः स्थितिस्वभावनियतोर्थ: स्यात् सर्वदा स्थितेरहेतुकत्वात् । तदेवमादौ स्थितिदर्शनाच्छब्दविद्युत्प्रदीपादेरन्तेऽपि स्थितेरनुमानं युक्तम् । अन्यथा, अन्ते क्षयदर्शनादादौ तत्प्रतिपत्तिरसमञ्जसैव । तादृशः कारणादर्शनेपि कथंचिदुपादानानुमानवत् तत्कार्यसन्तानस्थितिरदृष्टाप्यनुमीयेत । शब्दविद्युदादेः साक्षादनुपलब्धमुपादानमनुमीयते निर्णिबन्धनोत्पादप्रसङ्गभयान पुनस्तदुत्तरकार्यमवस्तुत्वानुषङ्गभयादिति किमपि महामोहविलसितम् । शब्दादेरुत्तरकार्याकरणेपि योगिज्ञानस्य करणान्नावस्तुत्वप्रसक्तिरिति चेत्, न, आस्वाद्यमानरससमानकालरूपोपादानस्य रूपाकरणेपि रससहकारित्वप्रसङ्गात् , ततो रसादूपानुमानानुपपत्तेरनिष्टप्रसङ्गात् । तथा दृष्टत्वान्नेहानिष्टप्रसङ्ग इति चेत्, किं पुनः शब्दादेव शब्दस्योत्पत्तिरुपलब्धा कदाचित् ? शादिशब्दसंततौ मध्यावस्थायां शब्दादेव शब्दस्योत्पत्तिईष्टेति चेत्, कथमुत्तरशब्दोत्पत्तिरदृष्टा ? तथैव तद्द्दष्टेरिति शब्दादेयोगिज्ञानकरणवदुत्तरशब्दादिकरणमनुमीयता, रूपोपादानादूपोत्पत्तिवत् । तस्मात् कथंचन स्थितिमतः प्रतिक्षणं विवर्तोपि, नान्यथा, गगनकुसुमवत् । यदि पुनः परमार्थतः कार्यकारणभावस्याभावा
AAAAAAA
॥२६॥
For Private And Personal Use Only