SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kailassagarsur Gyanmandir अष्टसहस्री परिच्छेदस्तृतीयः॥ विवरणम्॥ ॥२५७॥ तात्पर्यविवरणरूपत्वेनाप्युपपत्तेरिति ध्येयम् । भगवतः साधुत्वेनाभिधानं तच्छासनबहिष्ठानामसाधुत्वेन तदुत्प्रेक्षामात्रकल्पित- प्रवचने विचारसम्मर्दासहिष्णुत्वमभिव्यनक्ति । न किञ्चिद्व्यक्त्यर्थ न किश्चिदभिव्यक्तिप्रयोजनम् , तदेकान्तविरोधानित्यत्वैकान्तविरोधात् ॥ ३८ ॥ यदि सत्सर्वथा कार्य, पुंवन्नोत्पत्तुमर्हति । परिणामप्रक्लप्तिश्च, नित्यत्वैकान्तबाधिनी ॥ ३९॥ न तावत्सतः कार्यत्वं चैतन्यवत् । न हि चैतन्यं कार्य, तत्स्वरूपस्य पुंसोपि कार्यत्वप्रसङ्गात् , यतस्तद्वन्महदादेः सत एव कार्यत्वं सिद्ध्येत् । नाप्यसतः, सिद्धान्तविरोधाद्गगनकुसुमादिवत् । " असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाश सत्कार्यम् ॥१॥” इति हि सांख्यानां सिद्धान्तः । स चासतः कार्यत्वे विरुध्यते एव । तथा 'यत्सर्वथाप्यसत् तन्नोत्पद्यते । यथा गगनकुसुमम् । सर्वथाप्यसञ्च कार्य कस्यचित् । इत्यनुमानविरोधश्च प्रत्येयः । नापरमेकान्तप्रकारान्तरमस्ति । तत एव न किंचित्कार्य, केवलं वस्तुविवर्त एवेत्येकान्तोस्तीति चेत्, न, तस्याप्यसंभवात् , विवर्तादेः पूर्वोत्तरस्वभावप्रध्वंसोत्पत्तिलक्षणत्वात् , तथोपगमे परिणामसिद्धेरनेकान्ताश्रयणप्रसङ्गात् । तदेतत् त्रैलोक्य व्यक्तेरपैति नित्यत्वप्रतिषेधात् , अपेतमप्यस्ति विनाशप्रतिषेधादित्यनेकान्तोक्तिरन्धसर्पबिलप्रवेशन्यायमनुसरति, स्वदर्शनानपेक्षं यथोपलम्भमाश्रयस्वीकरणात् ॥३९॥ तदेवं नित्यत्वैकान्तबादिनां,___ सूत्रेऽवतरणिकोक्तद्वितीयविकल्पोत्तरन्यूनतां परिजिहीर्षुराह-भाष्यकृत्-'नाप्यसत इत्यादि ' परिणामसिद्धेरिति तथा च सूत्रे प्रक्लप्तिपदार्थः प्रसिद्धिरित्यर्थः॥ ३९ ॥ पुण्यपापक्रिया न स्यात, प्रेत्यभावः फलं कुतः।बन्धमोक्षौ च तेषां न, येषां त्वं नासि नायकः॥४०॥ ॐACCUSARKARISHk | ॥२५७|| For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy