________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।। ॥ २५६ ।।
www.kobatirth.org
प्रसीदतु स वो विभुर्द्धरणराजपद्मावती-निषेवितपदद्वयः प्रकटपार्श्वपुण्याह्वयः ॥ १ ॥ तृतीयपरिच्छेदे किंचिद् विविच्यते-साक्षित्वादिवदिति, प्रधानात् सकलकार्योत्पत्तावात्मनस्ताटस्थ्ये नावस्थानं साक्षित्वम्, आदिना प्रकृतिभिन्नत्वादिग्रहः, पुरुषकल्पनावैयर्थ्यादिति पुरुषो हि प्रधानकार्यबुद्धितत्त्वनिष्ठचित् प्रतिबिम्बग्राहितयैव कल्प्यत इति, बुद्ध्याध्यवसितस्यैवेति अन्यथा पुरुषे विषयोपरागप्रसङ्गेन निर्द्धर्मकत्वव्याघातापत्तेः, परम्परासम्बन्धेनोपचारस्तु न तद्व्याहन्ति, उपलक्षणस्याविशेषकत्वादिति भावः । तस्या इति वस्तुत्वव्यवहारे तादृश्या एवार्थक्रियाया उपयुक्तत्वादिति भावः । किं तर्हि स्वभाव एवेति धात्वर्थरूपक्रियाश्रयणादिति भावः । पुंसोऽर्थस्य चेतनायाः स्वभावक्रियात्वोक्तौ स्वभावपदस्य परिणामपर्यायत्वात्परिणामाभ्युपगमप्रसक्तिरित्याह- पुंस इत्यादिना, स्वभावपदस्य न | परिणामपर्यायत्वमित्याशयेन सांख्य आशंकते ननु चेत्यादिना, असत्स्वमेवास्वभावपर्यायत्वमेव, उक्तसांख्याशयं दूषयति जैनः सोऽपि न तत्त्वविदित्यादिना पूर्वापरिच्छिद्यमानतारूपव्यवच्छेदेनेति, न च परिच्छिद्यमानत्वापरिच्छिद्यमानत्वेन स्वभावं भेत्तुमलमिति शङ्कनीयम् । अतद्व्यावृत्तेरपि स्वभावभेदनिबन्धनत्वस्य बहुधा व्यवस्थापितत्वात्, अन्यथाऽधिकृतचित्स्वभावस्यापि स्वभावान्तरव्यावृत्तिरूपत्वप्रसङ्गादिति द्रष्टव्यम् । सर्वथा तदभाव इति, त्रैलक्षण्यस्यैव स्वभावत्वव्यवस्थितेरित्यर्थः । एतेनोत्पादव्ययधौन्यात्मन एव स्वात्मनः प्रत्यक्षादिप्रमाणसिद्धत्वेन, एतेनात्मतत्त्वस्यैकान्तनित्यतानिराकरणेन वक्ष्यमाणकारिकार्थानुसारेण च, इष्टापत्याशङ्कायामाह -' सर्वथेत्यादि ' ॥ ३७ ॥ प्रमाणकारकैर्व्यक्तं, व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्यं किं, साधोस्ते शासनाद्वहिः ॥ ३८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदस्तृतीयः ॥
॥२५६॥