________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
GSURGUSARSONAL
दृष्टान्तचतुष्टयप्रतिपादनपरे प्रतीके साधनपदं हेतुसंवेदनघटाधवयविप्रधानपरतया मेदपदं च हेतुरूपनीलाद्याकारखारम्भकावयवसत्त्वादिपरतया व्याचिख्यासुराह भाष्यकृत्-" सपक्षविपक्षयोरित्यादिना परस्परनिरपेक्षरूपविशिष्टे न वस्तुत्वमिति व्यतिरेकं प्रद(श्यायित्वा परस्परसापेक्षरूपविशिष्ट एव तत्त्वमित्यन्वयं प्रदर्शयति-तादृशं हीत्यादिना क्षीराद्याहरणादिकाया इत्युत्तरयोरर्थक्रियाप्रदर्शन खविषयज्ञानेत्याद्ययोः हेतुना स्वविषयज्ञानस्यानुमितिरूपस्य संवेदनेन चानुव्यवसायस्य जननादिति बोध्यम् । स्वप्रकाशत्वात्संवेदनस्य न स्वविषयज्ञानजननलक्षणाऽप्यर्थक्रियेति चेत्, तहिं व्यवहारजननलक्षणा साऽऽद्रियतां, यथा कथञ्चिदथक्रियाकारित्वस्यैव वस्तुत्वव्यवस्थापकत्वादिति तत्त्वम् । भाष्ये तदन्तरेणापीति तत्प्रसिद्धसाधनम् , अन्तरेण विनापि, इदं तुरीयपादलक्षणं पाठान्तरम् एकपाठत्वेऽप्यावृत्यपेक्षया नानाप्रयोगरूपं बहूनां सगृहीतं भावे क्तप्रत्ययात् सङ्ग्रहो यत्र तत्तथा, बह्वर्थसङ्गाहकं भवतीत्यर्थः। कारिकायामिति, अवयवावयाविभावेन वृत्तित्वे सप्तमी॥३३॥
ननु चैकत्वप्रत्ययात्पृथक्त्वप्रत्ययाच कथमेकत्वं पृथक्त्वं च जीवादीनामुपपन्नं तस्य निर्विषयत्वादित्यारेकायां तस्य सविषयत्वमादर्शयितुमनसः स्वामिनः प्राहुः
सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः। भेदाभेदविवक्षायामसाधारणहेतुवत ॥ ३४॥
तु विशेषणे । तेन सत्सामान्य विशेषणमाश्रित्य सर्वेषां जीवादीनामैक्यमिति नैकत्वप्रत्ययो निर्विषयः, तस्य सत्सामान्य विषयत्वात् । पृथक् सर्व जीवादि द्रव्यादिपदार्थभेदमाश्रित्यानुभूयते । ततो न पृथक्त्वप्रत्ययोपि निर्विषयः, तस्य द्रव्यादिभेदविषयत्वादिति निवेदितं बोद्धव्यम् । हेतुरत्र ज्ञापकः कारकश्वोच्यते । स चासाधारणो यथास्वं प्रवादिभिर्विशेषेणेष्टत्वात् । स च यथा स्वभेदानां
For Private And Personal Use Only