________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
न खल्विति सर्वात्मना विरुद्धयोरैकाधिकरण्यं नास्तीत्यर्थः । तथा च सर्वथा पृथक्त्वैकत्वयोर्न तत् कथश्चित् पृथक्त्वैकत्वयोस्त्वविरोधात्तत् सम्भवत्येवेति भावः । वन्ध्याया विधिरेव तादात्म्येनेति दृश्यम् । तत्सुतप्रतिषेधः जनकतासम्बन्धेन सुताभाव इत्यर्थः । एवमग्रेऽपि ॥ ३२ ॥
तदेवमेकत्वाद्येकान्तनिराकृतिसामर्थ्यात्तदनेकान्ततत्त्वप्रसिद्धावपि तत्प्रतिपत्तिदाार्थमन्यथाशङ्कापाकरणार्थं च तत्सप्तभङ्गी समाविर्भावयितुकामास्तन्मूलभङ्गद्वयात्मकत्वं जीवादिवस्तुनः प्राहुः । अनपेक्षे पृथक्त्वैक्ये ह्यवस्तु द्वयहेतुतः। तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥३३॥
हि यस्मादवस्त्वेवानपेक्षे पृथक्त्वैक्ये-ऐक्यपृथक्त्वनिरपेक्षत्वहेतुद्वयात् प्रतिपादिते प्राक् , तस्मात्तदेवैक्यं पृथक्त्वं च जीवादिवस्तु कथंचिदेकत्वपृथक्त्वप्रत्ययहेतुद्वयादवसीयते । यथा साधनं सत्त्वादि पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वलक्षणैर्भेदैवि शिष्टमेकं प्रसिद्धमुभयोः। तत्राप्यन्वयव्यतिरेकयोरनपेक्षयोरवस्तुरूपत्वात् साधनलक्षणत्वायोगात् सापेक्षयोरेव तल्लक्षणत्वेन वस्तुस्वभावत्वसिद्धेः साम्यमुदाहरणस्य प्रतिपत्तव्यम् । किं पुनरनया कारिकया करोत्याचार्यः ? पूर्वेणैवास्यार्थस्य गतत्वादिति चेत्, एकत्वपृथक्त्वे नैकान्ततः स्तः प्रत्यक्षादिविरोधादिति स्पष्टयति, गतार्थस्याप्यनुमानविषयत्वदर्शनात्स्पष्टत्वप्रसिद्धेः, प्रमाणसंप्लववादिनां गृहीतग्रहणस्यादूषणात् । तथा हि । पृथक्त्वैकत्वे तथाभूते न स्ताम् , एकत्वपृथक्त्वरहितत्वाद्वयोमकुसुमादिवत् । तथा हि । सर्वथा पृथक्त्वं नास्त्येव, एकत्वनिरपेक्षत्वाद्व्योमकुसुमवत् । सर्वथैकत्वं नास्ति पृथक्त्वनिरपेक्षत्वात्तद्वदिति । अत्र न हेतुद्वयमसिद्धं तदेकान्तवादिनां तथाभ्युपगमात् । नाप्यनैकान्तिकं विरुद्धं वा, विपक्षवृत्त्यभावात् । सापेक्षत्वे हि तदेवैक्यं पृथक्त्वमित्यविरुद्धं कथंचिज्जीवादिवस्तु
For Private And Personal Use Only