SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyanmandir अष्टसहस्री विवरणम्॥ | परिच्छेदो द्वितीयः॥ ॥२४७॥ लम्बिना विकल्पान्तरेण प्रत्येतीति सुपरिबोधप्रज्ञो देवानांप्रियः । न ह्यविकल्पेतरराश्योरर्थानर्थविषयत्वं विशदेतरात्मत्वं वाऽनुपष्णवेतररूपत्वं वा येन विकल्पान्तरेण प्रत्येति । तद्वस्तुविषयं युक्तम् , तस्य विकल्पराशावनर्थविषयेनुप्रवेशात् । स्वत एव विकल्पसंविदा निर्णये स्वलक्षणविषयोपि विकल्पः स्यात् । परतश्चेदनवस्थानादप्रतिपत्तिः अतोर्थविकल्पोपि मा भूदित्यन्धकल्पं जगत् स्यात् , स्वयमनिश्चयात्मनो विकल्पादर्थनिश्चयानुपपत्तेः । न चायं परोक्षबुद्धिवादमतिशेते, सर्वथार्थचिन्तनोच्छेदाविशेषात् । यथैव ह्यप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति तथा स्वयमनिश्चितात्मोपलम्भस्यापि । स्वयमनिर्णीतेन नामात्मना बुद्धिरर्थ व्यवस्थापयतीति सुव्यवस्थितं तत्त्वम् । न वै स्वरूपं पररूपं वा बुद्धिरध्यवस्थति निर्विषयत्वाद्धान्तेः स्वप्नबुद्धिवदिति विभ्रमैकान्तवादिवचनम् । इदमतो भ्रान्ततरं, बहिरन्तश्च सद्भावासिद्धेः । स्वप्नादिभ्रान्तज्ञानं हि बहिरासत्त्वादेव, न पुनः स्वरूपासत्त्वात् , इदं तु विभ्रमकान्तसंवेदनं बहिरन्तरप्यर्थासत्त्वादिति कथं न तदतिशेते ? न चास्य स्वरूपसत्त्वं, तद्वयवस्थानस्य विपक्षव्यवच्छेदेन प्रतिपत्तिपथमुपनेतुमशक्तेः । स्वपरस्वभावप्रतिपत्तिशून्येन स्वपरपक्षसाधनदूषणव्यवस्था प्रत्येतीति किमपि महाद्भुतम् । संवृत्त्या प्रत्येतीति चायुक्तम् , कथंचिदपि परमार्थप्रतिपत्त्यभावे संवृतिप्रतिपत्त्ययोगात् परमार्थविपर्ययरूपत्वात्संवृतेः । अन्यथा परमार्थस्य संवृतिरिति नामकरणमात्रमबाधाकरमेव परेषामनुषज्येत । सोयं संवृत्त्या विभ्रमैकान्तसाधनमविभ्रमदूषणं च प्रत्येतीति परमार्थतो न प्रत्येतीति उपेक्षणीयवचन एव । तमन्येऽद्याप्यनुमन्यन्ते इत्यचिन्त्यमनल्पतमतमोनिबन्धनमशक्यपर्यन्तगमनमिहाद्भुतम् ॥ ३१ ॥ किश्चेत्यादिना, इत्यन्ये इति, अन्ये सौगताः, स्वयमिति अन्यगिरामसत्यत्वे इष्टापत्तिवारणाय अभिधेयत्वमित्यनन्तरं युक्तिसिद्धमिति शेषो द्रष्टव्यः । 'समयान्तरभेदेष्विति' तत्तच्छास्वप्रसिद्धेषु प्रधानेश्वराद्यर्थेष्वपारमार्थिकेष्वि ॥२४७॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy