________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
ACACASSACARECORA
मेकज्ञाननिर्भासविशेषैरपाकरणान्निरङ्कुशत्वसिद्धेः ॥ २९ ॥
सन्तानो न स्यादिति मुक्तास्थानीयानां क्षणानां मालास्थानीस्यानुगमकस्याभावादित्यर्थः । नानास्कन्धावयववदिति, न च धान्यराशिवदुपपत्तिः, बुद्धिकृतादेकत्वादवयवबन्धकृतस्यैकत्वस्य विलक्षणत्वात् , साधर्म्यं न स्यादिति, तथा च समानपरिणामैकत्वमादाय सोऽयं शब्द इति प्रयोगो न स्यादिष्यते च तद्व्यक्त्यैक्यं समानपरिणामैक्यं चादाय सोऽयमित्येव प्रयोगस्तव्यक्त्यभिन्नोऽयं तज्जातीयोऽयमिति विवरणद्वैविध्येऽपि प्रयोगैक्यादिति द्रष्टव्यम् ।। 'सकलेत्यादि' तथा च निरङ्कुशत्वं बाधारहितत्वं विशेषणं यथास्थितं विपरिणतं वा सर्वत्र योजनीयम् , तेन न तत् सर्वमित्यनेन सर्वत्र तत्परामर्शानुपपत्तिरिति बोध्यम् ॥ पूर्व सतीति अव्यवहितप्राक्काले सामग्रीसत्त्वं कार्योत्पत्तिप्रयोजकं न तु कार्यस्य प्राक्सत्वमसत्त्वं | वेति भावः । 'स्वकाले इति' स्वाव्यवहितप्राकाल इत्यर्थः, स्वदेशे सति कारणे यथा कार्यमुत्पद्यते तथा स्वकालेऽपीति दैशिककालिकव्याप्तिगर्भमेकं कारणत्वमिति भावः । 'तथा बुद्धेतरेति' अनुगमकाभावेन देशस्यापि क्षणत्वादेशिक कालिकव्याप्योरभेदपर्यवासानादित्यर्थः । 'सन्तानान्तरेत्यादि' सन्तानान्तरचित्तकारणे स्वाकारणे सन्ताने बुद्धचित्तस्यासर्वज्ञत्वप्रसङ्गादित्यर्थः । अतिशयात्मनोः पर्यायस्वरूपयोः, अन्वयः द्रव्यात्मनैकत्वम् , कथञ्चिदैक्यमेवेति नीलाधनेकनिर्भासपर्यायज्ञानात्मना तत्काले तदात्मद्रव्यपरिणामकृतमैक्यमित्यर्थः । समनन्तरोपलम्भनियमादनुभवस्मरणयोरेकविषयस्पर्शनियमात् , कथञ्चिदैक्यं कथं न स्यादिति विशिष्टैक्यद्वारकं विशेषणानामैक्यं स्यादेवेत्यर्थः, कालसमनन्तरोपलम्भनियमात् सादृश्यप्रत्यासनक्षणविषयानुभवनियमात्, देशसमनन्तरोपलम्भनियमानैरन्तर्यप्रत्यासनस्वलक्षण
For Private And Personal Use Only