________________
Shri Mahalin Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailascagarsuri Gyanmandir
पयितुमशक्तेः । ननु च न वस्तुवृत्तमपेक्ष्याऽविद्या व्यवस्थाप्यते, तस्यामवस्तुभूतायां प्रमाणव्यापारायोगात् । परब्रह्मण्यविद्यावति अविद्यारहिते च विद्याया विरोधादानर्थक्याच्च नाविद्याऽस्येत्यप्यविद्यायामेव स्थित्वा प्रकल्पनात् , ब्रह्माधारायास्त्वविद्यायाः कथमप्ययोगात् । यतश्चानुभवादविद्यास्मीति ब्रह्मानुभूतिमत्तत एव प्रमाणोत्थविज्ञानबाधिता सा, तदबाधने तस्या अप्यात्मत्वप्रसङ्गात् । तथा ब्रह्मण्यविज्ञाते तदविद्याव्यवस्थानुपपत्तेर्वाधासद्भावात् विज्ञातेपि सुतरां तदबाधनादब्यवस्थानं, अबाधिताया बुद्धेम॒षात्वायोगात । न चाविद्यावानरः कथंचिदविद्यां निरूपयितुमीशश्चन्द्रद्वयादिभ्रान्तिमिव जातितैमिरिकः । तदुक्तं " ब्रह्माऽविद्यावदिष्टं चेन्ननु दोषो महानयम् । निरवये च विद्याया आनर्थक्यं प्रसज्यते ॥ १॥ नाऽविद्याऽस्येत्यविद्यायामेव स्थित्वा प्रकल्पते । ब्रह्माधारा त्वविद्येयं न कथंचन युज्यते ॥२॥ यतोऽनुभवतोऽविद्या ब्रह्मास्मीत्यनुभूतिमत् । अतो मानोत्थविज्ञानध्वस्ता साप्यन्यथात्मता ॥ ३॥ ब्रह्मण्यविदिते बाधान्नाविद्येत्युपपद्यते । नितरां चापि विज्ञाते मृषा धीर्नास्त्यबाधिता ॥ ४ ॥ अविद्यावानविद्यां तां न निरूपयितुं क्षमः । वस्तुवृत्तमतोऽपेक्ष्य नाविद्येति निरूप्यते ॥ ५ ॥ वस्तुनोन्यत्र मानानां व्यापृति हि युज्यते । अविद्या च न वस्त्विष्टं मानाघाताऽसहिष्णुतः ।। ६ ॥ अविद्याया अविद्यात्वे इदमेव च लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिष्यते ॥ ७ ॥" न चैवमप्रामाणिकायामविद्यायां कल्प्यमानायां कश्चिद्दोषः, तस्याः संसारिणः स्वानुभवाश्रयत्वात् , द्वैतवादिन एव दृष्टादृष्टार्थप्रपञ्चस्य प्रमाणबाधितस्य कल्पनायामनेकविधायां बहुविधदोषानुषङ्गात् । तदप्युक्तं " त्वत्पक्षे बहु कल्प्यं स्यात् सर्व मानविरोधि च । कल्प्याऽविद्यैव मत्पक्षे सा चानुभवसंश्रया"॥१॥ इति कश्चित् , सोपि न प्रेक्षावान , सर्वप्रमाणातीतस्वभावायाः स्वयमविद्यायाः स्वीकरणात् । न हि प्रेक्षावान् सकलप्रमाणातिक्रान्तरूपामविद्या विद्यां वा स्वीकुरुते । न च प्रमाणानामविद्याविषयत्वमयुक्तम् , विद्यावदविद्याया अपि कथंचिद्वस्तुत्वात् । तथा विद्यात्वप्रसङ्ग
For Private And Personal Use Only