SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir - SAMACASSAMAC-* अकादाचित्कत्वात् , अन्यथा कदाचित्तदभावप्रसङ्गात् । प्रतिभासालम्बनत्वात्प्रतिभास्योर्थो भवतीति चेत् , कुतस्तस्य प्रतिभासालम्बनत्वम् ? प्रतिभास्यत्वादिति चेत् , परस्पराश्रयणम्। प्रतिभासालम्बनत्वयोग्यत्वादिति चेत् , तर्हि प्रतिभासस्वरूपमेव प्रतिभास्य, तस्यैव प्रतिभासालम्बनत्वोपपत्तेः, सर्वत्र प्रतिभासस्य स्वरूपालम्बनत्वात् । तथा च कथं विषयस्योपचरितं प्रतिभाससमानाधिकरणत्वं, यतोऽसिद्धो हेतुः स्यात् । तत एव नानैकान्तिको, विरुद्धो वा, प्रतिभासान्तरऽप्रविष्टस्य कस्यचिदपि प्रतिभाससमानाधिकरणत्वायोगाद्धेतोर्विपक्षवृत्त्यभावात् । नाश्रयासिद्धिरपि हेतोः शङ्कनीया, सर्वस्य धर्मिणः परब्रह्मण एवाश्रयत्वात् 'ब्रह्मेति ब्रह्मशब्देन कृत्स्नं वस्त्वभिधीयते । प्रकृतस्यात्मकाय॑स्य वै-शब्दः स्मृतये मतः॥१॥' इति श्रुतिव्याख्यानात् , ततोऽनवद्याद्धेतोर्भवत्येवाद्वैतसिद्धिः । तथोपनिषद्वचनादपि सर्व वै खल्विदं ब्रह्म' इत्यादिश्रुतिसद्भावात् , ततस्तद्धान्तिनिराकरणात्” इति । तदेतत्प्रतिविधित्सवः प्राहुः हेतोरद्वैतसिद्धिश्चेद्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाड्यात्रतो न किम् ॥२६॥ ___ननु च प्रतिभाससमानाधिकरणत्वाद्धेतोः सर्वस्य प्रतिभासान्तःप्रविष्टत्वेन पुरुषाद्वैतसिद्धावपि न हेतुसाध्ययोद्वैतं भविष्यति, तादात्म्योपगमात् । न च तादात्म्ये साध्यसाधनयोस्तद्भावविरोधः, सत्त्वानित्यत्वयोरपि तथाभावविरोधानुषङ्गात् । कल्पनाभेदादिह साध्यसाधनधर्मभेदे प्रकृतानुमानेपि कथमविद्योदयोपकल्पितहेतुसाध्ययोस्तद्भावविघातः, सर्वथा विशेषाभावादिति चेत्, न , शब्दादौ सत्त्वानित्यत्वयोरपि कथंचित्तादात्म्यात् सर्वथा तादात्म्यासिद्धेः, तत्सिद्धौ साध्यसाधनभावविरोधात् । न चासिद्धमुदाहरणं नाम, अतिप्रसङ्गात् । ततो न हेतोरद्वैतसिद्धिः । हेतुना विनैवागममात्रात्तत्सिद्धिरिति चेत्, न, अद्वैततदागमयोद्वैतप्रसङ्गात् । यदि पुनरागमोप्यद्वयपुरुषस्वभाव एव न ततो व्यतिरिक्तो येन द्वैतमनुषज्यते इति मतम् , " उर्द्धमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि तस्य For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy