________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersun Gyanmandie
अष्टसहस्री विवरणम् ॥
| परिच्छेदा प्रथमः॥
॥२३०॥
सकलभेदोपादानत्वेन कालस्वरूपस्य सद्रव्यस्येश्वरत्वोक्तौ सकलनयमये भगवत्प्रवचने दोषाभावात् , विवेचितं चैतत्तत्त्वं तर्कानुसारिण्यां तत्त्वार्थटीकायामस्माभिः॥ कथञ्चिद्विशिष्टप्रतिभासात् (२२९-१-१) बौद्धैकत्वानुविद्धभेदप्रतिभासादित्यर्थः । विशिष्यत इति विशिष्टं भेदः, उक्तमेव कथश्चित्प्रतिभासं भाष्येण समर्थयत्राह-'यद्यपीति (२२९-१-१) यद्यपीत्युक्तेः कालादिमेदेऽपीत्यत्र तथापीति गम्यम् । वायचित्रविलक्षणत्वात् (२) ग्राह्यनानारूपभिन्नत्वात् , शक्यविवेचनं हीति (२) भिन्नधर्मिकत्वादेकत्रापि च धर्मिणि स्फुटावच्छेदकमेदादित्यर्थः । अशक्यविवेचनाश्चेति (२) अस्फुटावच्छेदकत्वादित्यर्थः। विवेचने (४) सच्चात् पृथक्कृत्य विवक्षणे, सामान्येति (४) पराभिमतसामान्यादिवदित्यर्थः। यथा हि पराभिमतः सामान्यादिपदार्थः सवाभावानिःस्वरूपस्तथा सञ्चाद्विविक्तो जीवादिः स्यादिति तत्त्वम् । सद्विवर्त्तत्वात् (५) सद्विशेषत्वात् , विशेषे च सर्वथा सामान्यभेदस्यासम्भवादित्यर्थः। विशे(शिष्यविकल्पः (९) इदमेतदिदं चैतदिति विभज्य निश्चयः । व्यपदेशनिमित्ताभावः (११) पदार्थान्तरभूतस्य समवायस्यैकत्वेनाभ्युपगमात् सङ्ख्यावत्येव सङ्ख्यासमवायो नान्यत्रेति नियामकाभावादित्यर्थः । विशेषणविशेष्यभावः (११) आधाराधेयभावः, तथा च समवायस्यैकत्वेऽपि समवायसम्बन्धावच्छिन्नतत्तदाधारताया अतिरिक्तत्वान्नातिप्रसङ्ग इति भावः, तस्या अप्यतिरिक्तत्वे तत्सम्बन्धान्तरगवेषणयाऽनवस्था, अनतिरिक्तत्वे तु तादात्म्यमेव सम्बन्धतयाऽवश्यमाश्रयणीयमित्यभिप्रायवानाह-तस्यापीत्यादि (११)। अयं (१२) सौगतौ वैशेषिको वा, वर्णरसादिवदिति (१३) यथैकत्र मातुलिङ्गे वर्णरसयो देन सत्त्वमेकस्य निर्णयेऽप्यन्यस्य संशयात्तथा सङ्ख्यासङ्ख्यावतोरित्यर्थः, क्रमार्पितद्वयात् स्यादुभयमित्यादि (१४) भङ्गयोजनं प्राग्वदुपयुज्य विधेयमिति श्रेयः॥ २३ ॥
R
॥२३॥
For Private And Personal Use Only