SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.icbatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री है। न कुतश्चित् , असतोऽपि नीलादेः सुखादेश्वासत्वादिव्यावृत्तिवद्वासनावशाद्विकल्पोत्पत्तेः सम्भवादित्यर्थः । दुर्घटैवेति परिच्छेदः विवरणम् (३) स्वसंवेदनत्वप्रकारकनिश्चयस्याप्यदृष्टासद्विषयकत्वसम्भावनादित्यर्थः । तदनुत्पत्तौ सुतरामिति (३) स्वसंवेदनत्व- प्रथमः॥ ॥ २२८॥ | प्रकारकनिश्चयाभावे तदंशे दर्शनाप्रामाण्यस्य स्फुटत्वादिति भावः । तदाह, स्वर्गप्रापणेत्यादि (३) ॥ २२ ॥ सम्प्रत्येकानेकत्वादिसप्तभङ्गयामपि तामेव प्रक्रियामतिदिशन्तः सूरयः प्राहुः।-- एकानेकविकल्पादावुत्तरत्रापि योजयेत् । प्रक्रियां भगिनीमेनां नयैर्नयविशारदः ॥ २३ ॥ स्यादेकमेव स्यादनेकमेवेति विकल्प आदिर्यस्य स एकानेकविकल्पादिः, तस्मिन्नुत्तरत्रापि स्याद्वादविशेषविचारेपि, प्रक्रियामेनामन्वादिष्टां, भगिनी सप्तभङ्गाश्रयां, नयैर्यथोचितस्वरूपैर्योजयेत्-युक्ता प्रतिपादयेत् नयविशारदः स्याद्वादी, ततोन्यस्य तद्योजनेऽनधिकारात्। तद्यथा । स्यादेकं सद्रव्यनयापेक्षया । न हि सत्पर्यायनयापेक्षया सर्वथा वा सर्वमेकमेवेति युक्तम् , प्रमाणविरोधात् । ननु च सव्यनयार्पणादपि जीवादिद्रव्यमेकैकश एवैक सिध्येत् , न तु नानाद्रव्यम्, प्रतीतिविरोधात् , तत्रैकत्वप्रत्यभिज्ञानाभावात् सर्वत्रैकत्वस्य तन्मात्रसाध्यत्वादन्यथातिप्रसङ्गादिति कश्चित् । तं प्रत्येके समादधते 'सदेव द्रव्यं सद्व्यं , तद्विषयो नयः सङ्ग्रहः परमः । तदपेक्षया |* सर्वस्यैकत्ववचनाददोष इति ॥१॥ अपरे तु ' सद्व्यमेव नयः, नीयमानत्वाद्धेतोः, तदपेक्षया सर्वमेकं, जीवादीनां षण्णां तद्भेदप्रभेदानां चानन्तानन्तानां तत्पर्यायत्वात् 'एक द्रव्यमनन्तपर्यायम्' इति संक्षेपतस्तत्त्वोपदेशात् , तस्य सर्वत्र सर्वदा विच्छेदानुपलक्षणात् प्रतीतिविरोधाभावादेकत्वप्रत्यभिज्ञानस्यापि सदेवेदमित्यबाधितस्य सर्वत्र भावात्, अभावस्यापि तत्पर्यायत्वान्न किचिडूपणम्' इति समाचक्षते । ननु च जीवादयो विशेषाः परस्परं व्यावृत्तविवर्ताः कथमेकं द्रव्यं विरोधादिति चेत्, न, कथंचिदेकत्वेन विरोधाभावात् PI २२८॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy