________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विशेषविषयतया प्रमाणाविषयत्वात् । इति न तेनानेकान्तः । एतेन प्रमेयत्वस्य धर्मस्य नयविषयस्य नेयत्वेनाप्रमेयत्वात्तेन व्यभिचारो निरस्तः । प्रमाणविषयस्य तु प्रमेयत्वस्य हेतोः स्वधर्मापेक्षयानन्तधर्मत्वेन धर्मित्वात्पक्षत्वेपि न हेतुत्वव्याघातः, स्वपरानन्तधर्मत्वे साध्येऽन्यथानुपपत्तिसद्भावात् । ततोनन्तधर्मा धर्मी सिद्ध्यत्येव । तस्य धर्मे धर्मेऽस्तित्वादौ भिन्न एवार्थः प्रयोजनं विधानादिः प्रवृत्त्यादिर्वा तदज्ञानविच्छित्तिर्वा न पुनरेक एव, येन प्रथमभङ्गादेवानन्तधर्मात्मकस्य वस्तुनः प्रतिपत्तेः शेषधर्माणामानर्थक्यं प्रसज्येत । न च धर्मा धर्मिणोऽनर्थान्तरभूता एव, नाप्यर्थान्तरमेव, येन तत्पक्षभाविदूषणप्रसङ्गः, कथंचिद्भेदाभेदात्मकत्वाद्धर्मिधर्माणां तदात्मक वस्तुनो जात्यन्तरत्वाच्चित्राकारक संवेदनवत्, तत्र विरोधादेरप्यनवकाशात् । केवलमङ्गित्वे प्रधानत्वेऽस्तित्वादिषु धर्मेष्वन्यतमस्यान्तस्य धर्मस्य, शेषान्तानां स्याच्छब्दसूचितान्यधर्माणां तदङ्गता तद्गुणभावः, तथा प्रतिपत्तुर्विवक्षाप्रवृत्तेरर्थित्वविशेषात् । ततो भङ्गान्तरप्रयोगो युक्त एव, प्रतिधर्मं धर्मिणः कथंचित्स्वभावभेदोपपत्तेः । यदि पुनः प्रत्युपाधि परमार्थतः स्वभावभेदो न स्यात्तदा दृष्टेऽभिहिते वा प्रमाणान्तरमुक्तत्यन्तरं वा निरर्थकं स्यात्, गृहीतग्रहणात् पुनरुक्तेश्च । तथा हि । साक्षादुपलब्धे शब्दादौ क्षणिकत्वाद्यनुमानं स्वार्थं न स्यात्, धर्मिप्रतिपत्तौ कस्यचिदप्रतिपन्नस्वभावस्य साध्यस्याभावात्, सर्वथा स्वभावातिशयाभावात् । परार्थं चानुमानं वचनात्मकं न युज्येत, धर्मिवचनमात्रादेव साध्यनिर्देशसिद्धेः, साधनधर्मोक्तिसिद्धेश्व । तद्वचने पुनरुक्तताप्रसङ्गः, तस्य स्वभावातिशयाभावादेव । तस्माद्दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रान्तेर्निश्चीयते नेति साधनं संप्रवर्तते ॥ १ ॥ इत्येतदप्यनालोचितवचनमेव, दृष्टस्य स्वभावस्य स्वभावातिशयाभावेऽखिलगुणदर्शनस्य विरोधात्, धर्मिमात्रेप्यभ्रान्तौ साध्ये स्वभावे भ्रान्त्ययोगात् तद्भान्तौ वा शब्दसत्वादावपि भ्रान्तिप्रसक्तेः कुतः साधनं संप्रवर्तेत यतोऽर्थनिश्चयः स्यात् ? शब्दसत्त्वादौ निश्चये कथमनित्यत्वादावनिश्चयः ? स्वभावातिशयप्रसङ्गात्, निश्चितानिश्चितयोरेक
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
+6+%%%