________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वष्टसहस्री विवरणम् ॥ ॥२१८॥
C
तस्य तेन रूपेणाव्यवस्थितत्वात् , सामान्यविशेषात्मन एव जात्यन्तरस्य वस्तुस्वरूपत्वात् , तेनैव लक्ष्यमाणस्य स्वलक्षणत्वप्रसिद्धेः, परिच्छेदः सकलबाधकवैधुर्यात् । कः पुनर्विधेयप्रतिषेध्ययोधर्मी स्यादाश्रयभूतः, कश्च तयोस्तेन संबन्धो, येन विशेषणविशेष्यभावः स्यादिति चेत् ,
प्रथमः। उच्यते । अस्तित्वनास्तित्वयोधर्मि सामान्यम् । तत्र तादात्म्यलक्षणः संवन्धः, संबन्धान्तरकल्पनायामनवस्थाप्रसङ्गात् । तन्नैतत्मारं, जात्यादिमतामतन्न संभवत्येवेति, तदभावे एवासंभवात् विशेषणविशिष्टवस्तुग्रहणस्य, विशेषण सत्त्वादिसामान्यं पूर्व गृहीत्वा तदनन्तरं विशेष्यं गृह्णाति, ततस्तत्संबन्धं समवायं लोकस्थितिं च विशेषणविशेष्यव्यवहारनिबन्धना, ततस्तत्संकलनेन सदिदं वस्तु इति प्रतीतिक्रमस्यैव दुर्घटत्वात , विशेषणविशेष्यात्मकस्य सामान्यविशेषरूपस्य वस्तुनो जात्यन्तरस्य यथाक्षयोपशम प्रत्यक्षे परोक्षे च विज्ञाने निर्बाधमनुभवात्तद्विपरीतस्य जातुचिदप्रतीतेः । तथा सति नैकान्तेन दर्शनविकल्पाभिधानानां विषयभेदोस्ति कथंचित्प्रतिभासभेदेपि प्रत्यासन्नेतरपुरुषदर्शनवत् , प्रतिभासभेदाद्विषयभेदे योगीतरप्रत्यक्षयोरेकविषययोरपि विभिन्नविषयत्वप्रसङ्गात् । एतेन धूमादिकृतकत्वादिसाध्यधर्मिधर्मस्य साध्येतरापेक्षया हेतुत्वाहेतुत्वविशेषणात्मकस्य निदर्शनतयोपन्यस्तस्य प्रत्यक्षविषयत्वं निवेदितम् । तथा हि । धूमादयः कृतकत्वाइयो वा कचिदग्निसलिलयोर्विनाशेतरयोर्वा साधनेतरस्वभावाभ्यां साक्षाक्रियेरन् , इतरथा विशेष्यप्रतिपत्तरयोगात् । न हि धूमादीनामग्न्यादौ साध्ये साधनत्वं सलिलादावसाधनत्वं च विशेषणमप्रतिपद्यमानो विशेष्यान्धूमादीन् प्रतिपद्यते नाम, नापि कृतकत्वादीनां विनश्वरत्वे साध्ये साथनत्वमविनश्वरत्वे चासाधनत्वं विशेषणमप्रतीयन् कृतकत्वादिहेतूविशेष्यान्प्रत्येतुमीशो यतोग्न्यादिविनश्वरशब्दादीन् साध्यानपि विशेष्यान्प्रतिपद्येत, प्रत्येति च तान्, ततोवश्यं साक्षात्कुर्वीत तद्धेतून , | साध्येतरापेक्षावां सत्यां साधचेतरस्वभावाभ्यां तत्साक्षात्करणे विरोधाभावात् । अनपेक्षायां तु विरोधः, क्वचिदेकत्र साभ्ये हेतूनां |॥ २१८ ।
For Private And Personal Use Only