SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥२१७॥ त्वस्य पररूपेण नास्तित्वाविनाभावव्यतिरेके बाधकमाह अन्यथेत्यादि (२१७-१-३) 'तदा सिद्धमिति' (७) ननु कथमेतत, यावता प्रवृत्तिविषयेऽनिष्टतावच्छेदकरूपवैशिष्ट्यज्ञानस्य प्रवृत्तिप्रतिवन्धकत्वात्करभत्वाभावो दनि प्रवृत्त्यङ्गतयोपयुज्यताम् , न तु करभरूपेण दधित्वाभाव इति चेत् , न, अनिष्टतावच्छेदकरूपसांकर्यज्ञानस्यापि प्रवृत्तिप्रतिबन्धकत्वेन करभरूपेणादधित्वस्यापि दग्नि प्रवृत्त्यङ्गताया न्यायप्राप्तत्वात् , ननु च हेतोरन्यथानुपपत्तिसिद्धावपि धर्मधर्मिव्यवस्थायाः कल्पितत्वादनुमानस्यापि कल्पितत्वेन कथं सामञ्जस्यं स्यादित्याशङ्कायामाह 'स्याद्वादसिद्धान्तीभाष्ये, न हि स्वेच्छेत्यादि (८) तथा च सर्वसिद्धत्वाद्धर्मधर्मिभावो नाप्रामाणिक इति भावः। तदाह-यत इत्यादि (९), बुढ्यारूढेन (९) कल्पितेन, बहिः सदसत्वं (९) स्वलक्षणान्यव्यावृत्तिरूपम् , तदेवं परेषां भेदाभेदादितिरस्करणं बालोक्तितुल्यमित्याह भाष्यकृत् तदसमीक्षितेत्यादि (१०)॥ १८ ॥ ननु चास्तित्वं नास्तित्वं च विशेषणमेव, न तु विशेष्यम् । ततो न साध्यसाधनधर्मयोः परमार्थसतोरधिकरणम् , येन प्रकृतमनुमानद्वितयं वास्तवं धर्मधर्मिन्यायेन स्यादित्येके । न तत्सर्वथाभिलाप्यम् , वस्तुरूपस्यानभिलाप्यत्वादिति चान्ये । जीवादेवस्तुनोत्यन्तमर्थान्तरमेव तत्, प्रतिभासभेदाभृटपटवत् । न पुनरस्तित्वनास्तित्वात्मकं वस्तु, धर्मधर्मिसंकरप्रसङ्गादिति चापरे। तान्प्रत्याचार्याः प्राहुः। विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः । साध्यधर्मों यथा हेतुरहतुश्चाप्यपेक्षया ॥१९॥ विधेयमस्तित्वम् । प्रतिषेध्यं नास्तित्वम्। विधेयं च प्रतिषेध्यं च विधेयप्रतिषेध्ये । ते आत्मानौ स्वभावौ यस्य स विधेयप्रतिषेध्यात्मा, अर्थः सर्वो जीवादिरिति पक्षः। विशेष्यत्वादिति हेतुः, विशेष्य इति हेतुनिर्देशात् , गुरवो राजमाषा न भक्षणीया इति यथा । ॥ २१ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy