SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailascagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ ॥२१६ ॥ परिच्छेदः माप्रथमः॥ तामन्तरेण (५) अनेकरूपतां विना, सामान्यादिव्यवहारनिर्भासभृतः संवृतेरनुपपत्तेरिति योजनीयम् । संवृतेश्चानेकात्मकत्वेऽभ्युपगते तदृष्टान्तेन भावानां तदनिवारितमेवेत्याह-तद्वदिति (५) ॥ अशक्तेरिति, (७) अर्थक्रियाकारित्वे संवृतेमिथ्यात्वेनानेकस्वभावापर्यनुयोज्यताया दुर्वचत्वादिति भावः। प्रमेयाः स्युः (७) इत्यनन्तरमभावत्वेनेति शेषः। एतदन्यतः (७) एतस्मादन्यतः, निर्व्यवसायात्मकस्येति (८) अतव्यावृत्त्यनवगाहितयाऽव्यवसायात्मन इत्यर्थः। निर्णयस्य (८) दर्शनोत्तरभाविनो विकल्पस्य ॥१७॥ भवतु तावदस्तित्वं जीवादी नास्तित्वेनाविनाभावि । नास्तित्वं तु कथमस्तित्वाविनाभावि, खपुष्पादौ कथंचिदप्यस्तित्वासंभवादिति मन्यमानान्प्रत्याहुः । नास्तित्वं प्रतिषेध्येनाविनाभाव्येकधमिणि । विशेषणत्वाद्वैधयं यथाऽभेदविवक्षया ॥१८॥ कृतकत्वादौ हेतौ शब्दानित्यत्वादौ साधने सधर्मणा साधर्म्यणाविनाभाविविशेषणं विपक्षे वैधय॑मुदाहरणं प्रसिद्धं तावत्तज्जीवादावेकधर्मिणि पररूपादिभिर्नास्तित्वं स्वरूपादिभिरस्तित्वेनाविनाभावि साधयत्येव, विशेषणत्वसाधनस्यानवद्यत्वात् , पक्षीकृते नास्तित्वे विशेषणत्वस्य भावादस्तित्ववत्, विपक्षे च स्वप्रतिषेध्याविनाभावरहिते कचिदप्यभावात , तथा तस्य विशेषणत्वानुपपत्तेरित्यसिद्धविरुद्धानकान्तिकत्वदोषाभावात् , दृष्टान्तस्य च साध्यसाधनवैकल्यादिदोषासंभवात् , साधर्म्यस्येव हेतौ भेदविवक्षया, वैधय॑स्याभेदविवक्षयाऽविनाभावित्वनिश्चयात् , तत्र भेदविवक्षावदभेदविवक्षायाः परमार्थसद्वस्तुनिबन्धनत्वात् । भेदाभेदविवक्षयोरवस्तुनिबन्धनत्वे विपर्यासोपि किं न स्यात् ? शब्दानित्यत्वसाधने कृतकत्वादिहेतौ घटादिभिर्भेदविवक्षा गगनादिभिरभेदविवक्षा हि विपर्यासः । स च 034450566 ॥ २१६॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy