________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥२०९॥
अष्टसहस्री या तृतीयस्याप्यवर्जनीयत्वात्, अथवा सर्व सर्वात्मकमिति सांख्यमतव्यवच्छेदार्थं तत्प्रतिषेधो विधीयते, तत्र तस्य प्रतीविवरणम् ॥ ४ त्यभावात् ॥१॥ यद्वा नाम - स्थापना - द्रव्य-भावभिन्नेषु विधित्सिताविधित्सितप्रकारेण प्रथमद्वितीयौ, ताभ्यां युगपदवाच्यम्, ४) तथाभिधेयपरिणामाभावाद्, व्यतिरेके प्रतिनियतव्यवहारोच्छेदो बाधकस्तर्कः, एवमग्रेऽपि ||२|| अथवा स्वीकृतप्रतिनियतप्रकारे तत्रैव नामादिके यः संस्थानादिस्तत्स्वरूपेण घटः, इतरेण चाघट इति प्रथमद्वितीयौ, ताभ्यां युगपदभिधातुमशक्तेरवाच्यः ॥ ३ ॥ यद्वा स्वीकृतप्रतिनियतसंस्थानादौ मध्यावस्था निजं रूपं कुशूलकपालादिलक्षणे पूर्वोत्तरावस्थे अर्थान्तररूपं ताभ्यां सत्त्वा सत्त्वयोराद्यद्वितीय, युगपत्ताभ्यामभिधातुमसामर्थ्यादवाच्यत्वलक्षणस्तृतीयः || ४ || अथवा तस्मिन्नेव मध्यावस्थारूपे वर्त्तमानावर्त्तमानक्षणरूपतया सच्चा सत्त्वाभ्यां प्रथमद्वितीयौ, ताभ्यां युगपदनभिधेयत्वादवक्तव्यत्वाख्यस्तृतीयः ॥ ५॥ यद्वा क्षणपरिणतिरूपे लोचनजप्रतिपत्तिविषयत्वाविषयत्वाभ्यां निजार्थान्तरभूताभ्यां सत्त्वासच्चाभ्यामाद्यद्वितीयौ, ताभ्यां युगपदादिष्टोऽवाच्यः ॥६॥ अथवा लोचनजप्रतिपत्तिविषये तस्मिन्नेव घटे घटशब्दवाच्यता निजं रूपं कुटशब्दाभिधेयत्वमर्थान्तररूपं ताभ्यामाद्यद्वितीय, सहार्पणया तृतीयः ||७|| अथवा घटशब्दाभिधेये तत्रैव घटे हेयोपादेयान्तरङ्गबहिरङ्गोपयोगानुपयोगरूपतया सदसच्चादाद्यद्वितीय, ताभ्यां युगपदादिष्टोऽवाच्यः ||८|| अथवा तत्रैवोपयोगेऽभिमतार्थावबोधकत्वानभिमतार्थानवबोधकत्वतः सच्चासत्वाभ्यामाद्यद्वितीयौ, सहार्पणयाऽवाच्यः ॥९॥ अथवा सच्चमसत्वं चार्थान्तरभूतम्, निजं घटत्वम्, ताभ्यामाद्यद्वितीयौ, अभेदेन ताभ्यां निर्दिष्टो घटोऽवक्तव्यो भवति, सत्त्वमनूद्य घटत्वविधाने सत्त्वस्य घटत्वेन व्याप्ततया घटस्य सर्वगतत्वापच्या तथाभ्युपगमे प्रतिभासव्यवहारविलोपात् असत्त्वमनूद्य घटत्वविधानेऽप्यभावमात्रस्य घटत्वप्रसङ्गो, घटत्वमनूद्य सदसचवि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥२०९॥