________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गौरित्याद्यभिलापात्मा व्यवहारः, अतत्कार्यकारणव्यतिरेकव्यवस्थायाम् (१४) अतत्कार्यकरणच्या वृत्तेरेकार्थ साधनहेतुत्वनियमे, विपर्यासयति (१४) वैधर्म्यापादनेन विघटयतीति भाष्याक्षरार्थः । वृत्तौ तस्येति, (१४) तथा च गुडूच्यादेर्श्वरोपशमनादौ वस्तुभूतशक्तिसमानपरिणामेन हेतुत्वम्, अन्यापोहस्य तु कल्पनामात्रनिर्वृत्तत्वेन तदभावान्न तथेति व्यक्तो विपर्यास इत्युक्तं भवति, कर्कादिव्यक्तीनां (२००-२-४) कर्कादिविशेषाणाम्, अश्वादिप्रत्ययम् अश्वाद्यनुगतप्रत्ययम्, तथा समानपरिणामहेतुकं (४) प्रतिनियतसमानपरिणामजन्यम्, साधयति (४) तथाविधव्याप्युपस्थापनात् । कर्कादिष्वश्वाद्यनुगतप्रत्ययः प्रतिनियतसमानपरिणामहेतुकः अनुगतकार्यत्वात् गुडूच्यादिप्रयुक्तज्वरनाश वदिति प्रयोगसम्भवादिति भावः । 'विपर्याससाधनमिति' (४) अतद्व्यावृत्तिहेतुकत्वसाधनायोपन्यस्तेन प्रकृतोदाहरणेन तद्विपरीतसमानपरिणामहेतुकत्वसाधनादिति भावः । ननु गुडूच्यादिषु शक्तिरूपः समानपरिणामः कारणतावच्छेदक इष्यते प्रकृते त्वनुगतप्रत्ययहेतुत्वं समानपरिणामे साध्यमित्यस्ति तत्रापि साधनवैषम्यमिति चेत्, न । शक्तिशक्तिमतोरभेदनये शक्तिमतो हेतुत्वे शक्तेरपि तथात्वेन तदभावात् यद्वा कारणतच्चावच्छेदकसाधारणं प्रयोजकत्वमादाय समानपरिणामप्रयोज्यत्वे साध्ये न कोऽपि दोष इति भावनीयम् । अमीषामन्यापोहवादिनां (४) बौद्धानाम्, अन्यापोहसामान्यमसत् (५), अभावत्वेनाभिमतम्, अवक्तव्यमेव विचारक्षमत्वात् एवं प्रत्येकमवक्तव्यत्वघटिते भङ्गद्वये समर्थिते क्रमार्पिताभ्यां तृतीयभङ्गः सुघट एवेत्याह-'एतेनेत्यादि' (५) । सौगतानामिति (५) तन्मते स्वलक्षणान्यापोहयोः सदसच्चेनाभिमतयोर्विवाददशायामवक्तव्यस्यापादयितुं शक्यत्वादित्यर्थः । तदाह-स्वलक्षणस्येत्यादि, अत्रेदं चिन्त्यम् । एवं पराभिमतं सच्चमसच्वं तदुभयं चोद्देश्यतावच्छेदकीकृत्यावक्तव्यत्वविधा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir