SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir परिच्छेदः प्रथमः॥ अष्टसहस्त्री तव्यं (४) भाव्यम् , अन्यथेत्थमनभ्युपगमे, विशेषवत् (५) अन्त्यविशेषस्येव सामान्यस्य, स्वभावहानिप्रसङ्गात् विवरणम् ॥ (१९९-२-५) यथा विशेषो विशेषान्तरादव्यावर्त्तमानः स्वभावं जह्यात् तथा सामान्यमपि सामान्यान्तरादित्यर्थः। विशेषाणां वा तद्वत् सामान्यवत् , ततः सामान्यादव्यावृत्तेः (५) प्रसङ्गादिति योजनीयम् , भाष्यप्रतीके वृत्तौ 'परापरेत्यादि' ॥२०६॥ (५) सामान्ययोमिथोऽव्यावृचौ तत् सङ्करादसंकीर्णसामान्यवतो विशेषस्येव तद्वतोऽर्थमात्रस्याभावात् सर्वाभावोऽतिरिक्तसामान्यवादिनां स्यादित्यर्थः । कल्प्यतां तर्हि सामान्य सामान्यान्तराद् व्यावृत्तं विशेष इव विशेषान्तरात् स्वभावत एवेति चेत् , तर्हि द्रव्यत्वादेः स्वाश्रयं प्रत्येव स्वं प्रत्यनुगमकव्यावर्तकतया सामान्यविशेषता स्यात् , तथा च किमपराद्धं वस्तुना, येनातिरिक्तपदार्थद्वयानपेक्षतया तस्यैव तत्ता नेष्यते, द्रव्यत्वादिकमपि हि जातित्वादिनानुगतं स्वरूपेण च व्यावृत्तमिष्यते, तद्वदाश्रय एव किं तथा न स्यात् । जातिषु जातिस्वीकारे करप्यमानान्तर्भावेन तास्वाश्रयीभूतास्वन्यान्यजातिस्वीकारेऽनवस्थापत्तेस्तासु जातित्वमुपाधिरेवानुगमको वाच्यः, द्रव्यादित्रये तु बाधाभावेन सामान्यपदार्थ एव तथेत्यनुभवादेवोपलभामह इति चेत् , तर्खनुभवं पृच्छन्तु भवन्तो जात्यादयोऽभावान्ता अनन्ताः पदार्थाः स्वभावादनुगच्छन्ति द्रव्यादयस्तु कतिपयेऽतिरिक्तसामान्येनेत्यर्द्धजरतीयं त्वयाऽकस्मादेव कथमुपलब्धम् , अनवस्थायाश्च मूलमतिरिक्तजातिकल्पनैव, तदुपर्येवान्यान्यजातिकल्पनावतारादुक्ताश्रयस्वभावकल्पनाकुठारेण च तदेव कुतो नोच्छिद्यते येनानवस्थावल्ली न वर्द्धतेति दिग् । तस्यानन्त्यादित्यादि, (७) अत्र यथोत्तरं हेतुहेतुमद्भावः, आनन्त्यात् सङ्केतकरणाशक्तेः सङ्केताविषयत्वम् , BI ततः सर्वोपसंहारेण शक्तिग्रहायोगादनन्वयः, ततश्च शाब्दबोधादिरूपशब्दव्यवहारायोग इति । स्वविषयविधिनिर ॥२०६॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy