SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir तामित्याकारिकेव शक्तिः “एकयोक्त्या पुष्पवन्तौ" इत्यादिकोशाल्लाघवाच्च, अत एव न चन्द्रसूर्यपर्यायता, नानार्थे गणनं वा, शक्तितदवच्छेदकतयोर्व्यासज्यवृत्तितया च चन्द्रत्वेन चन्द्रः शक्यः सूर्यत्वेन च सूर्य इत्यादिर्न धीः, किन्तु चन्द्रत्वेन सूर्यत्वेन च चन्द्रसूर्यो शक्यावित्येवेति सम्प्रदायमतमेव युक्तमित्यपरे । एकोचारणान्तर्भावेन नानाथशक्तिस्थलेऽपि न सर्वत्र व्यासज्यवृत्तिधर्मावच्छिन्नप्रकारताक एव बोधः, पुष्पदन्तादिपदात्तथा बोधेऽपि तृतीयादेः करणत्वैकत्वादेः प्रातिस्विकरूपा-1 वच्छिन्नस्यैव नानार्थस्य बोधात् , तदुक्तं मित्रैः, पुष्पदन्तादिपदे करणत्वैकत्वादिशक्ततृतीयादिपदे चैकोच्चारणेन तु नानार्थानुभवजननव्युत्पत्तिनिश्चयादेकदैव नानार्थानुभवो नावृत्तिरिति, युक्तं चैतत् , तृतीयायास्तृतीयात्वेन करणत्वे एकवचनत्वेन चैकत्वे शक्तेः सारकशक्त्यैक्यसम्भवादिति वदन्ति । अतिरिक्तशक्तिपक्षे शक्यशक्ततावच्छेदकभेदात्तृतीयादौ शक्तिः, पुष्पदन्तादिपदे तु व्यासज्यवृत्तिरेकैवेति युक्तम् । तदिह पुष्पदन्ततृतीयादिपदवत् सहार्पितसत्चासत्त्वोभयाश्रयबोधकं न किश्चित्पदं व्युत्पादितमस्ति, प्रत्युत तथाजिज्ञासाया बाधितत्वज्ञाने तथाज्ञानस्य विपरीतव्युत्पत्त्या जायमानस्याप्यनिष्टत्वप्रतिसन्धानान्न | तदर्थ कश्चित् प्रामाणिकः पदप्रयोग इति तदाऽवक्तव्यत्वेन ज्ञानस्यैवेष्टत्वात् , तदर्थ तुरीयभङ्गाभिधानं साधु सङ्गच्छते । अत एवैकक्षणे बोधद्वयं जायतामित्यादिस्थलेऽप्यवक्तव्यत्वाभिधानसाम्राज्यम् , बाधितेच्छाविषयत्वावच्छेदेनावक्तव्यत्वव्यवस्था-10 पनात् , न चैवं तुरीयभङ्गेऽनुगतावच्छेदकानुपलम्भः, अननुगतानामपि तेषामुपलम्भे स्यात्कारस्यैव कल्पवृक्षत्वात् , वस्तुत एकत्वावच्छिन्ने सहार्पितधर्मद्वयद्वारकद्वित्वान्वयस्य निराकासत्वादेवावक्तव्यत्वप्रयोगसङ्गतिः " नाणदंसणट्ठयाए दुवे अहं" इत्यादिवत् , सत्त्वासत्त्वादिनोपचरितं द्वित्वमादाय प्रवृत्तायां सप्तभङ्गयामपि निरवच्छिन्ने सत्चासत्त्वे एव तदवच्छेदके, न तु For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy