________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
तत्त्वजिज्ञासायामेकतरशक्तत्वस्यैव तत्र वक्तुमुचितत्वादित्यर्थः, 'सङ्केतस्येति' (१९७-२-१०) सङ्केतस्य तत्रार्थप्रतिपादने तच्छ|क्तिव्यपेक्षायास्तच्छक्तिसमाश्रयणाद्धेतोः प्रवृत्तेस्तस्याश्चैकार्थनियतत्वात् स्वातन्त्र्येण सङ्केतस्याहेतुत्वान्नैकदैकस्मादुभयप्रतिपत्ति
रित्यर्थः । सेनावनादिस्थले व्यभिचारमाशङ्कय निराकरोति-सेनेत्यादिना (१०), अत्र यद्यपि प्रत्यासचिविशेषस्य सेनादिपदा| र्थत्वे तदाश्रयालाभः, आक्षेपात् तल्लाभोपगमे जातिशक्तिवादापत्तिः, सेनादिपदेन प्रत्यासत्त्याऽऽश्रयस्यापि बोधोपगमे च एकं | पदमेकमेवार्थ बोधयतीति नियमभङ्गात् सकुदुच्चरितमित्यादिन्यायाप्रामाण्यापत्तिः, तथापि सेनादिपदानां प्रत्यासतिविशेषस्य शक्यतावच्छेदकत्वात् सकृदुच्चरितमित्यत्र सद्विवरणस्यैकमेवेत्यस्यैकधर्मावच्छिन्नमेवेत्यर्थान्न कश्चिद्दोष इति भावनीयम् । अपरे तु सकृदुच्चरितमित्यत्र सदित्यस्यैकं वृचिविषयमेवेत्यर्थः। सेनादिपदार्थोऽपि प्रत्यासचिविशेषाश्रय एक एव सेनादिपदेन बोध्यते, तदन्यबोधने त्वावृत्तिरेवाश्रयणीया, अत एव नानार्थे श्लिष्टेऽनेककारकान्वितैकक्रियापदे घटं पटं वाऽऽनयेत्यादौ मुख्यलक्ष्योभयपरे च गङ्गायां घोषमत्स्यौ स्त इत्यादौ गङ्गादिपदे सकृदुच्चरिते एकदाऽनेकार्थतात्पर्यग्रहेऽपि नैकदोभयोोधः, किं त्वावृत्त्यैवेति तत्र वाक्यभेदव्यवहारः, एकानुसन्धानादेवोभयार्थबोधे तद्विरोधस्य सर्वैकवाक्यतासिद्धत्वादित्याहुः॥ एतन्मते नराः पचन्तीत्यादावुभयत्रैव सरूपेणैकशेषः । ततश्च पृथगुच्चरितनानापदानामनुसन्धानान्नानार्थबोधः, अक्षणाक्षं पश्यतीत्यादौ तु पदभेदान दोष इति मन्तव्यम् । चिन्तामणिकृतस्तु नात्रावृत्तिः, किं त्वेकदैवार्थबोधः, एकपदस्यकानुसन्धाने उभयार्थतात्पर्यग्रहस्य यौगपद्येन वा तद्ग्रहस्यावृत्त्या निर्वाहासम्भवात् , सामान्यत उभयतात्पर्यग्रहे प्रथममस्यैव बोधो नान्यस्येति नियन्तुमशक्यत्वाच्च, गङ्गां पश्येत्यादावपि गङ्गापदस्य लक्ष्ये तात्पर्यग्रहे तस्यैव धीरित्यस्य निर्वाहाय नानार्थोपस्थितिकालीनैकार्थबोधे
AAAAAXNXXX
For Private And Personal Use Only