________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥ १९९॥
परिच्छेदः प्रथमः॥
ACC4%
A
रस्यासिद्धेः। विशेषणविशेष्यभावः संबन्धान्तरमिति चेत्, न, तस्यापि स्वसंबन्धिव्यतिरेकैकान्ते संबन्धान्तरापेक्षणस्यावश्यंभावादनवस्थाप्रसङ्गात् , तस्य कथंचित्स्वसंबन्धितादात्म्ये स्वसिद्धान्तविरोधात् । एतेनाविनाभावः संबन्धस्तयोः प्रत्युक्तः । सामान्यविशेषयोः मामान्यविशेषभाव एव संबन्ध इत्यपि मिथ्या, कथश्चिदतादात्म्ये तदनुपपत्तेः, सह्यविन्ध्यवत् । तन्न नित्यसर्वगतामूर्तकरूपं सामान्य सर्वथा व्यक्तिभ्यो भिन्नमन्यद्वा वाच्यम् , अर्थक्रियायां साक्षात्परम्परया वानुपयोगात् । तादृशोनुपलम्भात्संके| तोपि न सिध्येत् । न चासंकेतितमपि सामान्य वाच्यं नाम, अतिप्रसङ्गात् । सतापि तादृशान्यव्यावृत्त्यात्मना भवितव्यम्। अन्यथा विशेषवत्स्वभावहानिप्रसङ्गात् , विशेषाणां वा तद्वत्ततो व्यावृत्तेः, परापरसामान्ययोः परस्परं स्वाश्रयाच कथंचिदव्यावृत्तौ स्वरूपसंकरात्प्रतिनियतस्वभावहानेरवश्यंभावाद्विशेषवत्, तद्वतीर्थस्याप्यभाव इति सर्वाभावः प्रसज्येत । सामान्यवादिनां तदभ्युपगममात्रात्सदप्यवक्तव्यमेव सामान्यम् । तथा स्वलक्षणैकान्तवादिनां न स्वलक्षणं वाच्यं, तस्यानन्त्यात्संकेताविषयत्वादनन्वयाच्छन्दव्यवहारायोग्यत्वात् । न चान्यापोहः सर्वथार्थः शब्दस्य विकल्पस्य वा, स्वविषयबिधिनिरपेक्षस्य गुणभावेनाप्यन्यापोहस्य शब्देन वक्तुमशक्तेविकल्पेन च निश्चयनायोगात् । साधनवचनमेव त्रिरूपलिङ्गप्रकाशकं, न ततोन्यद्वचनं, तस्य विवक्षामात्रेपि संभावनाया एवोपगमादिति चेत्, न, तस्याप्यन्यापोहमात्रार्थत्वात् 'अपोहः शब्दलिङ्गाभ्यां न वस्तु विधिनोच्यते' इति वचनात् , सत्यपि च साधनवचनेन नित्यत्वसमारोपव्यवच्छेदे स्वलक्षणस्यानित्यत्वासिद्धौ साधनवचनानर्थक्यात् । न शब्दस्य परार्थानुमानरूपस्य विकल्पस्य वा स्वार्थानुमानज्ञानरूपस्य सर्वथान्यापोहोऽर्थः श्रेयान । यत्सत्तत्सर्वमनित्यं नित्ये क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति साधनवचनेन नित्यत्वसमारोपव्यवच्छेद एव स्वलक्षणस्यानित्यत्वसिद्धिः, अतो न तस्यानर्थक्यमिति चेत्, कथमित्थं सर्वथान्यापोहोर्थः समय॑ते, स्वलक्षणक्षण
C
ॐॐ545454545%A5%
%
१९९ ।।
%
For Private And Personal Use Only