________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥१९७॥
এ
www.kobatirth.org
वैफल्यात् । यथैव हि शब्दभेदाद्ध्रुवोऽर्थ भेदस्तथार्थभेदादपि शब्दभेदः सिद्ध एव, अन्यथा वाच्यवाचक नियमव्यवहारविलोपात् । एतेनैकस्य वाक्यस्य युगपदनेकार्थविषयत्वं प्रत्याख्यातम्, स्यात्सदसदेव सर्वं स्वपररूपादिचतुष्टयाभ्यामिति वाक्यस्यापि क्रमार्पितोभयधविषयतयोररीकृतस्योपचारादेवैकत्वाभिधानात् । तत्रोभयप्राधान्यस्य क्रमशो विवक्षितस्य सदसच्छब्दाभ्यां द्वन्द्ववृत्तौ तद्वाक्ये वा स्वपदार्थप्रधानाभ्यामभिधानाद्वा न दोषः, सर्वस्य वाक्यस्यैकक्रियाप्रधानतयैकार्थविषयत्वप्रसिद्धेः । सिद्धमेकार्थनिवेदनशक्तिस्वभावत्वं शब्दस्य वचनसूचनसामर्थ्यविशेषानतिलङ्घनात् । सदिति शब्दस्य हि सत्त्वमात्रवचने सामर्थ्यविशेषो, नासत्त्वाद्यनेकधर्मवचने, स्यादिति शब्दस्य वाचकस्यानेकान्तमात्रवचने सामर्थ्यविशेषो, न पुनरेकान्तवचने, तस्यैव द्योतकस्याविवक्षिताशेषधर्मसूचने सामर्थ्यविशेषो, न पुनर्विवक्षितार्थवचने, तद्वाचकशब्दप्रयोगवैयर्थ्यप्रसक्तेः । न चैवं विधिवचनसूचनसामर्थ्यविशेषमतिक्रम्य प्रवर्तमानः शब्दः प्रसिद्धवृद्धव्यवहारेषूपलभ्यते, यतो निष्पर्यायं भावाभावावभिदधीत । स्यान्मतं यथासङ्केतं शब्दस्य प्रवृ त्तिदर्शनात्सह सदसत्वधर्मयोः संकेतितः शब्दस्तद्वाचको न विरुध्यते संज्ञाशब्दवत् इति, तदयुक्तं, सङ्केतानुविधानेपि कर्तृकर्मणोः शक्त्यशक्त्योरन्यतरव्यपदेशार्हत्वादयोदारुवज्रलेखनवत् । न हि यथायसो दारुलेखने कर्तुः शक्तिस्तथा वज्रलेखनेऽस्ति, यथा वज्रलेखने तस्याशक्तिस्तथा दारुलेखनेपीति शक्यं वक्तुम् । नापि यथा दारुणः कर्मणोऽयसा लेख्यत्वे शक्तिस्तथा वज्रम्यास्ति, यथा वा वज्रस्य तत्त्राशक्तिस्तथा दारुणोपीति निश्चयः, क्वचित्कस्यचित्कर्तृकर्मणोः शक्त्योरशक्त्योश्च प्रतिनियततया व्यवस्थितत्वात् । तथा शब्दस्यापि सकृदेकस्मिन्नेवार्थे प्रतिपादनशक्तिर्न पुनरनेकस्मिन् सङ्केतस्य तच्छक्तिव्यपेक्षया तत्र प्रवृत्तेः । सेनावनादिशब्दस्यापि नानेकार्थे प्रवृत्तिः, करितुरगरथपदातिप्रत्यासत्तिविशेषस्यैकस्य सेनाशब्देनाभिधानात् वनयूथपङ्किमालापानकग्रामादिशब्दानामप्येतेनैवाने का
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेद:
प्रथमः ॥
॥१९७॥