________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेद प्रथमः॥
॥१९६॥
तदेवं प्रथमद्वितीयभङ्गो निर्दिश्य तृतीयादिभङ्गान्निर्दिशन्ति भगवन्तः ।। क्रमार्पितद्वयाद द्वैतं, सहावाच्यमशक्तितः । अवक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुतः॥ १६ ॥
क्रमाप्तिात्स्वपररूपादिचतुष्टयद्वयात्कथंचिदुभयमिति द्वैतं वस्तु, द्वाभ्यां सदसत्त्वाभ्यामितम्यैव द्वैतत्वात्, स्वार्थिकस्याणो विधानाद्वैतशब्दस्य सिद्धेः । स्वपररूपादिचतुष्टयापेक्षया सह वक्तुमशक्तेरवाच्यं, तथाविधस्य पदस्य वाक्यस्य वा कस्यचिदभिधायकस्यासंभवात् । सदसदुभयभङ्गास्त्ववक्तव्योत्तराः शेषाः पञ्चमषष्ठसप्तमाः, चतुर्योऽन्यत्वात् । ते च स्वहेतुबशान्निर्देष्टव्याः। तद्यथा कथश्चित्सदवक्तव्यमेव, स्वरूपादिचतुष्टयापेक्षत्वे सति सहवक्तुमशक्तेः । कथंचिदसदवक्तव्यमेव, पररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुमशक्तेः । कथंचित्सदसदवक्तव्यमेव, स्वपररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुमशक्तः, सदसदुभयत्वधर्मेष्वन्यतमापाये वस्तुन्यवक्तव्यत्वधर्मानुपपत्तेः । तेषां तत्र सतामप्यविवक्षायां केवलस्यावक्तव्यत्वस्य भङ्गस्य वचनाद्विरोधानवकाशः। ननु च क्रमार्पितद्वयात्तावद्वैतं वस्तु, तत्तु स्वरूपादित एव सत्, पररूपादित एवासत् , न पुनस्तद्विपर्ययादिति कुतोऽवसितमिति चेत् , उच्यते, स्वपररूपाद्यपेक्षं सदसदात्मकं वस्तु, न विपर्यासेन, तथादर्शनात् । सकलजनसाक्षिकं हि स्वरूपादिचतुष्टयापेक्षया सत्त्वस्य पररूपादिचतुष्टयापेक्षया चासत्त्वस्य दर्शनं,तद्विपरीतप्रकारेण चादर्शनं वस्तुनीति तत्प्रमाणयता तथैव वस्तु प्रतिपत्तव्यम् ,अन्यथा प्रमाणप्रमेयव्यवस्थानुपपत्तेः। कल्पयित्वापि तज्जन्मरूपाध्यवसायान् स्वानुपलम्भव्यावृत्तिलक्षणं दर्शनं प्रमाणयितव्यम् । तथा हि । बुद्धिरियं यया प्रत्यासत्त्या कस्यचिदेवाकारमनुकरोति तया तमेवार्थ नियमेनोपलभेत, नान्यथा, पारम्पर्यपरिश्रमं परिहरेत् । ननु तज्जन्मतपतदध्यवसायेषु सत्सु नीलादौ दर्शनं प्रमाणमुपलभते, तदन्यतमापाये तस्य प्रमाणत्वाप्रतीतेरिति चेत् , न, तदभावेपि स्वानुपलम्भव्यावृत्तिसद्भावादेव प्रमाणत्वप्रसिद्धेः, तज्जन्मनश्च
॥१९६॥
For Private And Personal Use Only