________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विचरणम् ।।
॥ १९१ ॥
www.kobatirth.org
त्यादि' ( ४ ) तथा सत्यनुमानादिशब्दवाच्यत्वात्तत्र स्पष्टत्वास्पष्टत्वसङ्करे ज्ञानसङ्करः स्यादित्याह 'तथैवेत्यादि ' ( ४ ) विपयविशेषकृतो न प्रत्यक्षेतरविशेषः, किन्तु स्वकारणभेदकृत इत्यत्राह 'तयोरिति' (५) तयोः प्रत्यक्षेतरयोः, विशेषे कुतश्चित्कारणाद्भेदे, तदात्मकयोः (५) प्रत्यक्षेतरशब्दयोर्भेदात् शब्दाद्वैतसिद्धिः कुतो ( ५ ) न कुतश्चिदिति प्रतिज्ञाहानिर्वादिनः । उपाधिभेदान्नायं दोष इत्याशङ्कते स्यान्मतमित्यादिना, (५) एतद् दूषयति तदस दित्यादिना, ( ७ ) प्रत्यक्षेतरोपौधीनामित्यत्र प्रत्यक्षं चेतरचोपाधिचेति द्वन्द्वः कार्यः तेन बहुवचनोपपत्तिरिति द्रष्टव्यम् । वक्तव्यैकान्तपक्षोक्तं दूषणमवक्तव्यैकान्तपक्षेऽपि सममित्युपदर्शयति तथानभिधेयत्वेऽपीत्यादिना (८) 'साध्याभिधानादित्यादि ' ( १२ ) साध्याभिधानात् पक्षोक्तिः, (१३) साध्यविशिष्टधर्मिण उक्तिः, पारम्पर्येणापि नालं (१३) नानुमितिजननसमर्था, पक्षज्ञानमात्रस्य तदहेतुत्वात् हेतुवचस्तु स्वयमनुमितिजननेऽशक्तमपि शक्तस्यानुमितिजननसमर्थस्य हेतोः सूचकम् इत्थं च पारम्पर्येण हेतुवचनस्यानुमापकत्वमनुज्ञातम् अत्र हि सूचकता ज्ञानजनकता, ज्ञानं च वाघाभावात् प्रमारूपमित्यनिच्छताऽपि शब्दस्य प्रमापकत्वं तन्निर्वाहाय वाचकत्वं च बौद्धेनाश्रयणीयमित्युक्तं भवति, सूचकत्वं तु ज्ञानावच्छेदकार्थानुमापकत्वविधया स्वातन्त्र्येण वेत्यन्यदेतत्, अवाचकशब्दव्यावृत्यर्थं प्रामाण्यपरीक्षायां वाचकत्वस्यावश्यंभावाद्वक्त्रभिप्रायसम्भावनाजनकत्वमेव शब्दस्यार्थसूचकं ( कत्वं ) सैव च बहुशो व्यवहारकरीत्याश्रयणे च प्रसिद्धानुमानकार्यस्यापि सम्भावनयैवोपपत्तेः प्रत्यक्षातिरिक्तप्रमाणमात्रसन्न्यासाच्चावकमतप्रवेशो महापापावहः स्यादिति द्रष्टव्यम् ||१४|| तत्र प्रथमद्वितीयभङ्गयोस्तावन्नययोगमुपदर्शयन्ति स्वामिनः । -
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ १९१ ॥