SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie अष्टसहस्री विवरणम् ॥ ॥ १८७ ॥ मत्वादिनापि भङ्गान्तरापरेरिति भावः । ननु स्याच्छब्दलाञ्छितैर्नयैः सप्तभङ्गीप्रयोगो युक्त इति तत्र तत्र श्रूयते स च सूत्रे परिच्छेदः नोक्त इति कथं न न्यूनत्वमत आह-'सा चेति' (१८३-२-५) सा चोक्तसप्तभङ्गी, स्याद्वाद एव यदमृतं तद्गर्भिणी, प्रथमः॥ अमृतपदेन निःशेषसंशयविषनिरासकत्वं, गर्भिणीत्यत्र गर्भपदेन च स्याच्छब्दस्य गम्यागम्यसाधारणत्वमभिव्यज्यते-'स्या| छब्दस्येति' [स्थादूचनार्थस्येति ] (६) तथा च सूत्रे कथञ्चिच्छब्देनैव स्याच्छब्दस्य गतार्थत्वान्न न्यूनत्वमिति भावः । 'न चैवमित्यादि' (६) एवं कथश्चिच्छन्दस्यानेकान्तवाचकत्वे, अनेकान्तस्य (७) नित्यानित्याद्यनेकधर्मशबलवस्तुनः, अनर्थकमिति (७) सन्चासत्वादिधर्मसप्तकशबलत्वस्याप्यनेकान्तशब्दार्थकुक्षिप्रविष्टत्वादनेकान्तपदादेव तद्बोधोपपत्तेरिति भावः । ततः सामान्यतोऽनेकान्तस्येत्यादि (७) स्यात्पदादनेकान्तपदाद्वा एकान्तबुद्धिविलक्षणबुद्धिविशेषविषयतावच्छेद| कत्वेनैवानन्तधर्मघटितसप्तभङ्गीचोधेऽपि प्रातिस्विकरूपेण तद्बोधनार्थ विशेषप्रयोगोऽवश्यमाश्रयणीयो, यथा वृक्ष इत्युक्ते वृक्षत्वेन न्यग्रोधबोधेऽपि न्यग्रोधत्वेन तद्बोधार्थ विशेषप्रयोग आश्रीयत इति । तेनोक्तस्य (९) सदादिशब्देनोक्तस्य, स्वरूपचतुष्टयादिना सत्त्वादिविशिष्टवस्तुनः । कथश्चिच्छब्देन द्योतनात् (९) तात्पर्यस्फोरणात् । तेन कथश्चिच्छब्देनानुद्योतने विशिष्टविषयत्वे तात्पर्यास्फोरणे सर्वथैकान्तशङ्काया अवच्छेदकास्फुरणादव्यवच्छेदेनानेकान्तप्रतिपत्तेरधिकृताया अयोगात् , एवकारावचने विवक्षितार्थस्य सदाद्ययोगव्यवच्छेदादिरूपस्याप्रतिपत्तिवत् । अथ स्याच्छब्दो द्योतको वाचको वेत्यत्र कः पक्षः श्रेयानिति चेत्, अत्र वैयाकरणाः, प्रादयो द्योतकाश्चादयो वाचका इति नैयायिकमतमयुक्तम् , वैषम्ये चीजाभावात् , येन हेतुना प्रादीनां द्योतकत्वं तेनैव निपातानामपि तत्त्वसिद्धेः, तथाहि अनुभवतीत्यादावनुभवनादिः प्रतीयमानो न धात्वर्थः, IPL१८७॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy