________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
वात् , अनभिमतप्रतिवादिवचनादपि तत्सिद्धिप्रसङ्गात् , स्वाभिधेयरहितादपि स्ववचनात्तत्त्वसिद्धिरुपजीव्यते, न पुनः परवचनादिति कथमप्यवस्थानासंभवात् । मद्वचनं वस्तुदर्शनवंशप्रभवं, न पुन: परवचन मिति स्वदर्शनानुरागमात्रं, न तु परीक्षाप्रधानं 'सर्वस्य वचसो विवक्षाविषयत्वाविशेषात् । ततो न सर्वथाभिधेयं वस्तुतत्त्वं, नाप्यनभिधेयं, बाधकसद्भावात् । किं तर्हि ? कथञ्चिदवाच्यमेव तवेष्ट, कथञ्चित्सदेव, कथञ्चिदसदेव, कथञ्चिदुभयमेवेति । तथा च शब्दात्कथञ्चित्सदवाच्यमेव, सर्वथाप्यसतोनभिधेयत्वधर्माव्यवस्थितेः कथञ्चिदसवाच्यमेव, सर्वथापि सतोनभिलाप्यत्वस्वभावासंभवात् तदभिलाप्यत्वस्यापि सद्भावात् , कथञ्चित्सदसदवाच्यमेव, स्वरूपपररूपाभ्यां सदसदात्मन एवावाच्यत्वधर्मप्रसिद्धरित्यपि भङ्गत्रयं समुच्चितमाचार्यैः, 'अवक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुत 'इत्यग्रे स्वयं समर्थनात्, इह तत्प्रतिज्ञातस्य सिद्धेरप्रतिज्ञातस्य समर्थनाघटनात् कस्यचित्प्रतिज्ञातस्य सामागम्यमानस्यापि प्रतिज्ञातत्वोपपत्तेः । इति साधीयसी सप्तभङ्गीप्रतिज्ञा, तथा नैगमादिनययोगात् ॥ १४ ॥ तत्रप्रथमद्वितीयभङ्गयोस्तावन्नययोगमुपदर्शयन्ति स्वामिनः । ___ इत्येतैर्नयदूषणैर्मतभिदामत्तेभघण्टारण-त्कारैस्त्रस्तसमस्तवादितुरगैः किं कर्णकोलाहलैः॥ यत्तु प्रस्तुतवस्तुबोधनविधौ धत्ते निराकाङ्क्षतां, बूमो मानमनन्तबोधगदितं तत्सप्तभङ्ग्यात्मकम् ॥१॥'प्रश्नवशादिति | (१८२-२-१) एकत्र वस्तुनि सत्चासत्वादिसप्तधर्मप्रकारकशाब्दबोधजनकतापर्याप्त्यधिकरणं वाक्यं सप्तभङ्गीति लक्षणतात्पर्यम् , विरोधस्फूर्ती वाक्यस्याबोधकत्वेनैवाविरोधेनेत्यस्य गतार्थत्वात् , प्रश्नस्य च क्वाचित्कत्वाच्छिष्यजिज्ञासयेव क्वचिद्गुरोर्जिज्ञापयिषयैव सप्तमङ्गीप्रयोगसङ्गतेः प्रश्नवशादित्यस्यापि लक्षणेऽप्रवेशात् , नानावस्तुनि सत्त्वासस्वादिबोधकवाक्येऽतिप्रसङ्गवारणायैकत्र वस्तुनीति, एकत्र रूपरसादिधर्मसप्तकबोधकेतिप्रसङ्गवारणाय सत्त्वासत्त्वादीति, खण्डवाक्ये तद्वारणाय पर्याप्तिः, प्रमाण
For Private And Personal Use Only