________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
लापरिच्छेदः
प्रथमः॥
अष्टसहस्री| विवरणम् ।। ॥१८२॥
चशब्दात्सदवाच्यमेव कथश्चिदसदवाच्यमेव तदुभयावाच्यमेवेष्टं ते शासनमिति समुच्चीयते, 'प्रभवशादेकत्र वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभङ्गी,' इति वचनात् । नययोगादिति वचनान्नयवाक्यानि सप्तैवेति दर्शयन्ति, ततोन्यस्य भङ्गस्यासंभवात् । तत्संयोगजभङ्गस्यापि कस्यचित्तत्रैवान्तर्भावात् , कस्यचित्त पुनरुक्तत्वात् । विधिकल्पनाया एव सत्यत्वात् तयैकमेव वाक्यमिति न मन्तव्यं, प्रतिषेधकल्पनायाः सत्यत्वव्यवस्थापनात् । विध्येकान्तस्य निराकरणात्। प्रतिषेधकल्पनैव सत्येत्यपि न सम्यक् , अभावैकान्तस्य निराकरणात् । तदपेक्षयापि नैकमेव वाक्यं युक्तम् । सदर्थप्रतिपादनाय विधिवाक्यमसदर्थकथनार्थ तु प्रतिषेधवाक्यमिति वाक्यद्वयमेव, सदसद्वर्गास्तत्त्वमिति वचनात्, प्रमेयान्तरस्य शब्दविषयस्यासंभवादिति च न चेतसि विधेयं, प्रधानभावार्पितसदसदात्मनो वस्तुनः प्रधानभूतैकैकधर्मात्मकादर्थादर्थान्तरत्वसिद्धेः, सत्त्ववचनेनैवासत्त्ववचनेनैव वा सदसत्त्वयोः क्रमार्पितयोः प्रतिपादयितुमशक्तेः । सदसदुभयविषयं वाक्यत्रयमेवेति चायुक्तं, सहोभयवाक्यस्यावक्तव्यत्वविषयस्य व्यवस्थितेः । तथापि वाक्यचतुष्टयमेवेति चायुक्त, सदसदुभयावक्तव्यत्वविषयस्य वाक्यान्तरत्रयस्यापि भावात्-विधिकल्पना (१), प्रतिषेधकल्पना (२), क्रमतो विधिप्रतिषेधकल्पना ( ३ ), सहविधिप्रतिषेधकल्पना च (४), विधिकल्पना सहविधिप्रतिषेधकल्पना च (५), प्रतिषेधकल्पना सहविधिप्रतिषेधकल्पना च (६), क्रमाक्रमाभ्यां विधिप्रतिषेधकल्पना (७) च सप्तभङ्गीति ब्याख्यानात् । न चैवं प्रत्यक्षादिविरुद्धविधिप्रतिषेधकल्पनापि सप्तभङ्गी स्यादिति शक्यं वक्तुम् , अविरोधेनेति वचनात् । नानावस्त्वाश्रयविधिप्रतिषेधकल्पनासप्तभङ्गथपि प्रसज्यते इति च न चिन्त्यम् , एकत्र वस्तुनीति वचनात् । नन्वेकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मसद्भावात्तत्कल्पनानन्तभङ्गी स्यादिति चेत् , न, अनन्तानामपि सप्तभङ्गीनामिष्टत्वात् , तत्रैकत्वानेकत्वादिकल्पनयापि सप्तानामेव भङ्गानामुपपत्तेः, प्रतिपाद्यप्रश्नानां
॥१८२॥
For Private And Personal Use Only