________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धारणया स्मृतिस्तज्जनकतावच्छेदकस्य धारणात्वस्य चक्षुराद्यवगृहीते त्वगादिना धारिते पूर्वदृष्टत्वाद्युपलक्षितविलक्षणतत्ताविषयक स्मृत्यनुत्पत्तये चाक्षुषत्वादिना साङ्कर्यवारणाय चाक्षुषत्वादिव्याप्यषद्विधजातिरूपस्य प्रत्यक्षतुरीय भेदवृत्तिताया एवाभियुक्तैरुक्तत्वात्, यदि चाक्षुषाद्युपयोगस्थलेऽपि समनन्तरोत्पदिष्णुमानसोपयोगगतधारणयैव स्मृतिरिष्यते, तदाऽस्तु सर्वत्र मानसत्वव्याप्यमेकमेव धारणात्वम्, अवग्रहत्वादिवद्विषयताविशेषरूपत्वे तु तस्याक्षजन्यधारणाया एव प्रत्यक्षतुरीयभेदत्वाश्रयणादनुमित्यादिवृत्तित्वमपि तस्य न दोषावहमित्यस्मदेकपरिशीलितः पन्थाः । केचित्तु समानाकारफलस्य भावनानाशकत्वाद्भावनायाः सविषयकत्वसिद्धिः, न च फलं स्वस्य वाच्यम्, तथा च तत्तद्व्यक्तित्वेन भावनानाशकत्वं युक्तमिति तद्भावनाजन्यचरमफलस्यैव तद्भावनानाशकत्वमस्त्विति वाच्यम्, जनकतया तद्विशेष्यकतत्प्रकारकस्मृतेः प्रतियोगितया तादृशभावनानाशे हेतुत्वस्यानुगतत्वात् न च तत्पुरुषीयभावनासामान्यनाशं प्रत्येव तत्पुरुषीयचरमस्मृतिव्यक्तेस्तत्वेन चरमस्मृतिमात्रस्य वैजात्येन हेतुत्वमस्त्विति वाच्यम् । एवं सति जनितोपेक्षात्मकचरमस्मृतिकानामपि भावनानां सत्त्वोपगमे तेभ्यः स्मृत्युत्पत्तेः प्रसङ्गादित्याहुः । यत्तु तत्तद्विषयको पेक्षाज्ञानस्य तत्तत्संशयस्य च तत्तद्विषयकभावनाप्रतिबन्धकत्वाद्भावनायाः सविषयकत्वमिति भट्टाचार्यैरुक्तं तच्चिन्त्यम्, उपेक्षात्मकचाक्षुपज्ञानोत्तरानुपेक्षात्मक स्पार्शनज्ञानस्थले संशयकालीनसाध्यानुमितिस्थले च संस्कारानुत्पत्तिप्रसङ्गात्, तत्रानुपेक्षात्मक तादृशज्ञानस्योत्तेजकत्वकल्पने च गौरवात्, नैयायिकैकदेशिनस्तु विशिष्ट वैशिष्ट्यविषयित्वावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारकत्वेनैव हेतुत्वाद्विशिष्टवैशिष्ट्यस्मृत्यर्थं विशेषणतावच्छेदकप्रकारकभावनासिद्धिः, न च तादृशप्रत्यक्षं प्रति तथाहेतुता, प्रत्यक्षत्वस्य नित्यवृत्तित्वाज्जन्यप्रत्यक्षत्वनिवेशे गौरवात्, रक्ते
३१
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*% *%%%%%%