________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
%ACCR
-%
-
वात् , ऋमिकावग्रहादिचतुष्टयपरिणामवदेकोपयोगवादे त्ववग्रहादिदशायामनभ्यस्तत्वादिनाऽस्मारकत्वं धारणादशायां त्वभ्यस्तत्वप्रकरणप्राप्तत्वपटुत्वेष्टत्वयोगात् स्मारकत्वमुपपद्यत इत्याल्लभ्यते, भूयस्त्वेनाभ्यासत्वं त्वप्रयोजकम् , शतमप्यन्धानां न पश्यतीति न्यायेन भूयसोऽपि दर्शनस्य निश्चयकार्यकारित्वायोगादिति द्रष्टव्यम् तदन्यव्यावृत्त्या (१७६-१-११) अनभ्यासादिव्यावृत्त्या, तत्र (११) प्रकृते, तद्योगोऽभ्यासादिसम्बन्धः, 'स्वयमिति' अतत्स्वभावस्य तदन्यव्यावृत्तिकल्पने पावकस्य (११) शीतस्वभावरहितस्याशीतव्यावृत्तिः स्यान्न चैवमस्ति ततस्तदन्यव्यावृत्त्यवच्छेदकस्तत्स्वभावोऽवश्यमभ्युपगन्तव्य इति किन्तुच्छान्यव्यावृत्तिकल्पनेनेति भावः । सविकल्पकेत्यादि, (१२) ये धारणाज्ञानमभ्यासात्मकमवग्रहादिभ्यः पृथगिच्छन्ति तेषां जैनानां धारणाभावादेव प्रतिवाद्युपन्यस्तवर्णादावस्मृत्युपपत्तिरिति भावः । यथा संस्कारमिति (१४) न हि यावद्धारितं तावत्स्मयते, ननु कथमेतदुपपद्यते, धारणाजन्यतावद्विषयकसंस्कारसत्त्वे यथाधारणामेव स्मृत्युत्पत्तेः सम्भवात् , न च यावदंशे उद्घोधकसम्पत्तिस्तावदंश एव संस्कारेण स्मृतिजननादुक्तोपपत्तिः, उद्घोधकस्य सामान्यत एव हेतुत्वाद्विशिष्य तस्य स्मृतिहेतुत्वे तत एवानतिप्रसङ्गादनुभवादेरपि स्मृतिहेतुत्वानापत्तेरिति चेत् , सत्यम् , परिणामवादे आंशिकोदोधकसमवधा नतदभावाभ्यामखण्डसंस्कारध्वंसे खण्डसंस्कारोत्पत्तावनुगतसंस्कारसामान्यसत्त्वे चानुपपत्तेरभावात् , तत्रापि संस्कारसामान्यस्यानुभवव्यापारस्यावश्यकत्वात् , इत्थमेव 'चउदसपुव्वी मणुओ देवत्ते तं न संभरइ सव्वं । देसंमि होइ भयणा' इत्यादि प्रवचनोक्तं सङ्गच्छते, देवजन्मप्रत्ययकर्मणा द्वादशाङ्गार्थविषयसमूहालम्बनसंस्कारस्य देशे सङ्कचितस्यैवोत्पादनादित्यादिकं प्रतिपादितमात्मख्यातावस्माभिः। इत्थमेव रोगकालादिनाप्यांशिकसंस्कारनाशोपपत्तिः, तत्र खण्डसंस्कारो
CAMGA600-34
For Private And Personal Use Only