________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
भावैकान्तं वा विधत्ते, अभावत्र भावेऽनुप्रवेशाद्भावस्य वा सर्वथाऽभावे, अन्यथा भावाभावयोर्भेदप्रसङ्गात् । ततो नोभयोरैकात्म्य श्रेयः स्याद्वादं विद्विषां, सदसतोः परस्परपरिहारस्थितिलक्षणविरोधात् जात्यन्तरस्यैव दर्शनेन सर्वथोभयैकात्म्यस्य बाधनात्तद्वत् । तथा सांख्यस्यैवमुभयैकात्म्यं त्रुवतस्त्रैलोक्यं व्यक्तरपैति, नित्यत्वप्रतिषेधात् , अपेतमप्यस्ति विनाशप्रतिषेधादिति वा, तदन्यथापेतमन्यथास्तीति स्याद्वादावलम्बनमन्धसर्पबिलप्रवेशन्यायमनुसरति, त्रैलोक्यस्य व्यक्तात्मनाऽपेतत्वसिद्धेः अव्यक्तात्मनास्तित्वव्यवस्थितेः " हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥१॥” इति वचनात् । परमार्थतो व्यक्ताव्यक्तयोरेकत्वान्न स्यावादावलम्बनं कापिलस्येति चेत्, न, तथा विरोधस्य तदवस्थानात् । प्रधानाद्वैतोपगमे तु नोभयैकात्म्यमभ्युपगतं स्यात् । तथा स्वयमनभ्युपगच्छतोपि कथञ्चिदुभयात्मकतत्त्ववादप्रवेशे कथमन्धसर्पबिलप्रवेशन्यायानुसरणं न स्यात् ? यदृच्छया तदवलम्बनात् । ततो नैवमप्युभयैकान्तः सिध्यति, विरोधात् ॥
'जात्यन्तरस्यैवेति' (१७२-१-२) प्रत्येकद्वयरूपोभयाभ्युपगमकृतदोषस्य जात्यन्तरवादेनैव गुडशुण्ठीन्यायेन निराससुकरत्वादिति भावः । तदाहुः श्रीहेमसूरिपादाः॥"गुडोऽपि कफहेतुःस्यान्नागरं पित्तकारणम् । द्वयात्मनि नदोषोऽस्ति गुडनागरभेषजे॥१॥” इति, तवं चावच्छेदकभेदेनोभयवृत्त्याऽवच्छेदकभेदगर्भितोभयात्मकैकस्वभावेन वा, आद्येऽवच्छेदकद्वयोरपि प्रतीतिबलेन व्याप्यवृत्तित्वादुभयोाप्यवृत्तित्वम् ,अन्त्ये च स्यात्पदोपसन्दानेन भावाभावपदयोर्विशेषपरतेति निरूपितं नयरहस्येस्माभिः। तद्वत् (२) शून्यावबोधवत् । एवं (३) उपाधिभेदराहित्येन परस्परनिरपेक्षतया, त्रैलोक्यं(३) प्रधान, व्यक्तेः (३) महदादेः, नित्यत्वप्रतिषेधादपैति नश्यति । अपेतं ध्वस्तम् , अप्यस्ति प्रकृतेविनाशप्रतिषेधात् तत् त्रै
For Private And Personal Use Only