SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsun Gyanmandir विभ्रमे किमविभ्रभो विभ्रमो वा ? तत्राविभ्रमे कथं सर्वविभ्रमः १ विभ्रमेपि कुतोसौ ? विभ्रमेपि विभ्रमे सर्वत्राविभ्रमप्रसङ्गात् । विभ्रमविभ्रमेपि विभ्रमोपगमे स एव पर्यनुयोगोनवस्था चेति दुरन्तं तमः । तदुक्तं न्यायविनिश्चये “ तत्र शौद्धोदनेरेव कथं प्रज्ञापराधिनी । बभूवेति वयं तावद्बहु विस्मयमास्महे ॥ १॥ तत्राद्यापि जडासक्तास्तमसो नापरं परम् । विभ्रमे विभ्रमे तेषां विभ्रमोपि न सिस्वति ॥ २ ॥” इति । ततो नाभावैकान्तः श्रेयान् , स्वेष्टस्य दृष्टबाधनाद्भाबैकान्तवत् ॥ १२ ॥ बोधवाक्यमिति (१७०-१-१)[मूले] समाहाराश्रयणाद्बोधो वाक्यं च न प्रमाणम् , तर्हि केन साधनं दूषणं च स्यादिति, साधनदूषणप्रयोगान्यथानुपपत्त्याऽभावकान्तो निरसनीय इति कारिकोत्तरार्द्धार्थः । भावा येनेत्यादि (२) कारिका धर्मकीर्तेः, किं त्रिलक्षणकल्पनयेति (६) एकलक्षणादेवोक्तानुमानादर्थसिद्धरित्यर्थः । एकलक्षणस्यैव प्रयोगस्य समर्थनत्वं परट्या साधयति सपक्षसत्त्वाभावेऽपीत्यादिना (६)॥ सर्व क्षणिकं सचादित्यत्र दृष्टान्ताभावेन सपक्षसत्त्वाभावः, प्रमाणास्तित्वमस्ति, इष्टसाधनादित्यत्र पक्षधर्मत्वाभावः परैरपीष्यत इति विपक्षव्यावृत्तिरेकमेव लक्षणं हेतोरवशिष्टं, तत्रैवास्माकमन्यथानुपपत्तिशब्देनाग्रह इति तत्त्वम् । अत्र हेत्वसिद्धयुद्भावने-नैरात्म्यमपि तत्वतो माध्यमिकस्य न सिब्येदित्याह-स्यादाकूतं ते इत्यादिना (८) तत्साधनं विरुद्धतामापयेतत्यन्तेन, (१२) ।। स्वसंवेदनज्ञानमहिम्नैव नैरात्म्यं सेत्स्यति समारोपव्यवच्छेदार्थ पुनः साधनादर इत्यत्राह भाष्यकृत, तत्र समारोपव्यवच्छेदेऽपि समानमिति (१३) समानं साधनविरोधषणं प्रागुक्तमिति बोध्यम् । उक्तमेव विवृणोति वृत्तिकृत् 'कुतश्चिदिति' (१७०-१-१३ ) समारोपव्यवच्छेदः परमार्थतः कल्पनया वा, आद्य प्रमाणान्तरेण तत्सिद्धौ काल्पनिकसाधनप्रयोगो धीविडम्बनामात्रम् , अन्त्ये तच्चतः समारोपाव्यवच्छेदाद For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy