SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥१६८॥ (९) स्थित्यादौ स्वाभिन्नद्रव्यगतोत्पत्त्यादेरव्यभिचारे दोषाभावादित्यर्थः। एतेनैव (९) स्थित्यादौ द्रव्यार्थतयोत्पत्यादिव्युत्पादनेनैव, स्याद्वादपक्षे तु तत्र भेदेऽप्यभेदाविरोधादित्यर्थः, 'येन हीति' (१०) द्रव्यार्थतयाऽभिन्नाः स्थित्यादयस्खलक्षण्यं स्वीकुर्वन्त्येव,पर्यायार्थतया तु लक्षणमात्रेण भिद्यत एवेति भावः । 'प्रतिक्षणमिति' (११) एकत्रापि क्षणे एकत्र वस्तुनि रूपभेदेन त्रयाविरोधाद्वैश्रसिकानां चोत्पादादीनां प्रतिक्षणमनुपरमादिति भावः । कालभेदेन तु शुद्धैकपर्यायावच्छेदेनापि तदुपपद्यत इत्याह एतेनेति, 'तस्यान्वितेनेति' (१२) तस्य जीवादेरन्वितेन रूपेण किश्चित्कालानुगतपर्यायेण, अन्यथा क्षणिकपक्षे, त्रुट्यदेकान्ते (१२) विगच्छत एकान्ते, न कुतश्चिदुपरमतीति (१६५-१-१) न कुतोऽपि भङ्गान्निवर्त्तत इत्यर्थः । तिष्ठति स्थितमित्यादि (३) स्थित्यादित्रयस्य सहवर्तिनः कालत्रयस्पर्शिद्रव्याभेदोपचारेण नव भङ्गाः प्रत्येकं स्थूलकालकृतवर्तमानत्वादिशालिस्थित्यादौ सूक्ष्मकालकृतावस्थाभेदेन नवेत्येकाशीतिर्भङ्गा भावनीयाः, यत्त्वाद्यक्रियाप्रागभावं चरमक्रियाध्वंसं चादाय भविष्यत्वमतीतत्वं च वाच्यमिति न वर्तमानक्रियाकाले कालत्रयवाचिप्रत्ययप्रयोगसम्भव इति नैयायिकादीनां मतम् , तत्स्थूलव्यवहारैकान्ताभिनिवेशविजृम्भितम् , नयविशेषेणैकदा त्रैकाल्यस्पर्शस्य सर्वसम्मतत्वात् , अन्यथोत्पत्तिकाले उत्पन्नत्वप्रत्ययस्य भ्रान्तत्वापत्तेः, सामुदयिकोत्पादे स्थूलकालभाविनि ऐकत्विकोत्पादानां सूक्ष्मकालस्पर्शिनां त्रैकाल्यस्पर्श तु न काचिदनुपपत्तिः । न चोत्पत्तिकाले उत्पन्नत्वमस्ति प्राक्काले च पक्वत्वं नास्तीत्यत्र विशेषकारणं पश्यामः । प्रत्युतैवं किञ्चित्पक्वं किश्चित्पच्यत इति निर्धारणानुपपत्तिः, सिद्धासिद्धसाधारणक्रमाश्रयणपरित्यागेन क्रियाविवेकस्य क्रियावौकाल्यस्पर्शपक्षपातित्वात् , तस्माद्वर्त्तमानक्रियाकाले कालस्य स्थूलत्वसूक्ष्मत्वाभ्यां त्रैकाल्यं नयविशेषेण यौक्तिकमेवेति ॥१६८॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy