________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
9%25A5%
25
किश्चित्स्वेष्टं तत्वं कचिदनिष्टेथे सत्यात्मनानुपलभमानः कालत्रयेपि तत्तत्र तथा नास्तीति प्रतिपद्यते एवेति सिद्धोऽत्यन्ताभावः । कथं पुनरभावप्रतिपत्तिः ? कथं च न स्यात् ? सर्वथा भावविलक्षणस्याभावस्य वास्तवस्य ग्राहकप्रमाणाभावात् , प्रत्यक्षस्य रूपादि स्वलक्षणविषयत्वादभावे प्रवृत्त्ययोगात् तस्य तत्कारणत्वविरोधात् , तत्कारणत्वे स्वलक्षणतापत्तः, अकारणस्याविषयत्वव्यवस्थितेः, प्रमाणान्तरस्यापि स्वकारणविषयत्वात् । तस्य कार्यानुमानत्वे तावदभावस्य कारणत्वप्रसक्तिः । न चासौ युक्तिमती। स्वभावानुमानत्वेपि भावात्मकतापत्तिः, अभावस्य स्वभावासंभवात् । असतोनुपलब्धेः पर्युदासवृत्त्या वस्तुनि नियमात् सर्वथाप्यभावाविषयत्वसिद्धिः। तद्विषयोपि भावस्वभाव एवाभावः । कस्यचिदेकस्य कैवल्यमितरस्य वैकल्यमिति ब्रुवन्नपि देवानांप्रियो दुर्विदग्धबौद्धो नावधारयति, भावाभावप्रतिपत्तेरभावाभ्युपगमात् । सोयं स्वयम् "अनादिवासनोबूतविकल्पपरिनिष्ठितः ॥ शब्दार्थविविधो धर्मो भावाभावोभयाश्रितः॥१॥” इति परमार्थतो भावस्याभावस्योभयस्य च प्रतिपत्तेरभावं प्रतिपद्यमानः कथमभावप्रतिपत्तौ प्रकृतपर्यनुयोगं कुर्यात् ? न चेदस्वस्थः परमार्थतः, स्वपररूपादिभावाभावलक्षणत्वात्सर्वस्य नि:श्रेणीपदबन्धाभ्यामिव भावाभावस्वभावाभ्यां प्रतिबन्धात्, स्वरूपादिभिरिव पररूपादिभिरपीष्टस्य संविदद्वयस्य भावे भेदरूपत्वप्रसङ्गात् पररूपादिभिरिव स्वरूपादिभिरपि तस्याभावे स्वयं प्रकाशनविरोधात् । न किश्चित्प्रमाण सर्वात्मना भावमभावं वा ग्रहीतुमर्हति, अनियमप्रसङ्गात् । ताथागतानां हि भाव एव प्रमाणविषय इति भावप्रमेयैकान्तवादिनामभावप्रतिपत्तिरयुक्तिः । अतो न भावनियमप्रतिपत्तिः, कस्यचित्कचित्कथश्चिदसत्त्वासिद्धेः स्वस्वभावब्यवस्थित्ययोगात् । तेषां तत्प्रमेयतोपसंख्यानं प्रमाणद्वयनियमं विघटयति । भावनैरात्म्यस्य प्रमाणाकारणत्वात्प्रतिबन्धनियमो मा भूत् , प्रमाणनैरात्म्ययोस्तादात्म्यानिष्टेस्तदुत्पत्तिप्रतिबन्धस्य विरोधात् , नैरात्म्यात्प्रमाणस्योत्पत्तौ तस्य भावस्वभावत्वप्रसके, तयोः प्रतिबन्धान्तरोपगमे लिङ्गस्य त्रिविध
॥ १६५॥
For Private And Personal Use Only