________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री| विवरणम् ।। ॥१५॥
परिच्छेदा प्रथमः॥
15554ॐॐ5
पुद्गलानां नास्तीति तावानेव ध्वनिपरिणामः सर्वैरभ्युपगन्तव्यः, तस्य सकलकालकलाव्यापित्वे मध्यवत्प्राक् पश्चाच्च श्रावणस्वभावत्वप्रसङ्गात् प्रयत्नजनितवर्णपदवाक्यात्मकत्वायोगात् । तत्प्राक्प्रध्वंसाभावप्रतिक्षेपे कौटस्थ्यं क्रमयोगपद्याभ्यां स्वाकारज्ञानाद्यर्थ क्रियां व्यावर्तयतीति निरुपाख्यमित्यभिप्रायः "श्रीस्वामिसमन्तभद्राचार्याणाम्" प्राप्रध्वंसाभावप्रतिक्षेपस्य कौटस्थ्येन व्याप्तत्वात् , तस्य च क्रमयोगपद्याभावेन, तत्र तद्विरोधात् । तस्यापि स्वाकारज्ञानाद्यर्थक्रियाव्यावर्तनेन, तस्य च निरुपाख्यत्वेन, सर्वथानर्थक्रियाकारिणः सकलवाग्विकल्पेभ्यो निष्कान्सत्वात्। स्यादाकूतम् , वर्णानामानुपूर्व्यपौरुषेयीष्यते, तस्या एव प्राक्प्रध्वंसाभावानभ्युपगमात् । ततो नोपालम्भः श्रेयानिति, तदप्ययुक्तं, वर्णव्यतिरेकानुपूर्व्यसंभवात् । कथश्चिक्रियमाणामपि तदानुपूर्वीकल्पनां विस्तरेण प्रतिक्षेप्स्यामः, " वक्तयेऽनाप्ते " इत्यत्र तत्प्रतिक्षेपविस्तारवचनात् । तदिह पर्याप्तम् , तत्प्रबन्धेन सर्वथा प्राक्प्रध्वंसाभावनिह्नवे यथानिगदितदूषणगणप्रसअस्य परिहरणासंभवात् ॥१०॥ ___कार्यसद्भावप्रसङ्ग इति (१४४-२-१) कार्यध्वंसतत्प्रागभावानाधारकालस्य कार्यवत्त्वव्याप्यत्वादिति भावः । तत्र (२) अनन्तरपूर्वक्षणेषु, इतरेतराभावरूपस्य (२) कार्यभेदरूपस्य, नायं दोष इति(२)इदानीमेतत्क्षण इतिप्रतीत्या तत्तत्क्षणस्येव तदभिन्नकार्याणां सौगतनये तादात्म्येनैव कालवृत्तित्वोपगमात् कार्यभिन्नक्षणे कार्यत्वस्यापादयितुमशक्यत्वादिति भावः । किमर्थमि[इति (२) अभावव्यवहारस्य भेदत एव सिद्धेरिति भावः । कार्यादिति (३) कार्याव्यवहितपूर्वक्षणमिन्नेष्वित्यर्थः । कार्यप्रागभावाभावत्वमात्रं न कार्यस्वभावत्वव्याप्यं किन्तु प्रागभावध्वंसत्वं ध्वंसोऽपि चाव्यवहितोत्तरक्षण एवानिमक्षणेषु घटादिव्यवहारश्च सदृशकार्योत्पत्तिदोषादिति न कोऽपि दोष इत्याशयवान् शङ्कते, 'स्यादाकूतमिति' (५)
॥१५॥
For Private And Personal Use Only