________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
H
गृहामीति प्रत्ययादिति चेत्, न, तस्य भूतलादिभावविषयत्वात् । अभावदृष्टौ हि तदवसानकारणाभावाद्भावदर्शनमनवसरं प्राप्नोति, क्रमतोनन्तपररूपाभावप्रतिपत्तावेवोपक्षीणशक्तिकत्वप्रसङ्गात् । प्रत्यक्षस्य कचित्प्रतिपक्षा स्मर्यमाणस्य घटस्याभावप्रतिपत्तौ तदपररूपस्यानन्तस्यास्मर्यमाणत्वं भावदर्शनावसरकारणमिति चेत्, न, प्रत्यक्षस्य स्मरणानपेक्षत्वात् , तस्य स्मृत्यपेक्षायामपूर्वार्थसाक्षात्कारित्वविरोधात् । भावप्रत्यक्षं किश्चित्तु स्मरणनिरपेक्षं योगिप्रत्यक्षवत् । किश्चित्तु स्मरणापेक्षं सुखादिसाधनार्थव्यवसायवत् । कचिदभावप्रत्यक्षं स्मरणनिरपेक्षं, योगिनोऽभावप्रत्यक्षं यथा । कचिदभावप्रत्यक्षं पुनः प्रतिषेध्यस्मरणापेक्षमेव, तथाप्रतीतेः इति चेत् , न, स्मरणापेक्षस्य विकल्पज्ञानस्य प्रत्यक्षत्वविरोधादनुमानादिवत् । प्रत्यक्षस्य सकलकल्पनाविषयत्वात्स्मृत्यपेक्षायामनवस्थाप्रसनात , स्मृतेः पूर्वानुभवापेक्षत्वात्पूवर्वानुभवस्याप्यपरस्मृत्यपेक्षत्वात्, सुदूरमपि गत्वा कस्यचिदनुभवस्य स्मृतिनिरपेक्षत्वे प्रकृतानुभवस्यापि स्मृतिसापेक्षत्वकल्पनावैय
र्थ्यात् । न च स्मृतिः पूर्वानुभूतार्थविषया कथञ्चिदप्यपूर्वार्थे ज्ञानमुपजनयितुमलम् , तस्यास्तत्प्रत्यभिज्ञानमात्रजननसामर्थ्यप्रतीतेईष्टे सजातीयार्थेपि स्मृतेः सादृश्यप्रत्यभिज्ञानजनकत्वसिद्धेः । पूर्वानुभूते घटे स्मृतिस्ततो विजातीयेऽर्थान्तरे तदभावे विज्ञानमुपजनयतीति शिलाप्लवं कः श्रद्दधीतान्यत्र जडात्मनः । ततः स्मृतिनिरपेक्षमेव सर्व प्रत्यक्षम् । तच्च यद्यभावविषयं स्यात्तदा भावदर्शनमनवसरमेव, तत्करणाभावात् । “प्रतिपत्तुर्भावदिक्षा भावदर्शनकारणम्" इत्यपि न सम्यक् , पुरुषेच्छानपेक्षत्वात्प्रत्यक्षस्य, सत्यामपि घटदिक्षायां तद्विकले प्रदेशे दर्शनाभावादसत्यामपि सति घटे दर्शनसद्भावात् । इति न प्रत्यक्षमभाव प्रत्येति, तस्य सन्मात्रविषयत्वात्तत्रैव प्रमाणत्वोपपत्तेरव्यभिचारात् । सकलशक्तिविरहलक्षणस्य निरुपाख्यस्य स्वभावकार्यादेरभावात्कुतस्तत्प्रमितिः स्यादानुमानिकी ? न हि निरुपास्यस्य स्वभावः कश्चित्संभवति, भावस्वभावत्वप्रसङ्गात् । नापि कार्य, तत एव । इति कुतः स्वभावात्कार्याद्वा हेतोस्तत्प्रमितिः ? अनुप
For Private And Personal Use Only