________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
CLICRORA
नस्य प्रत्यक्षतैवाभावस्याधिकरणरूपत्वादित्याशङ्कते संविदूपतयेति(१०),उत्तरयति तथेत्यादि (११), तथा ग्राह्यग्राहकाकारविविक्तक्षणिकज्ञानत्वेन, सकृदप्येकवारमपि, अप्रतिभासनात् ब्रह्माद्वैतवत् वेदान्त्यभिमतसकलप्रपञ्चविनिर्मुक्तपरब्रह्मवत् , तेऽपि हि प्रपञ्चरहितब्रह्मविषयं विचारसाध्यं महावाक्यजन्यं प्रत्यक्षं स्वीकुर्वत एव तद्वद्वौद्धबुद्धिपरमकाष्ठाप्राप्तं शून्यप्रत्यक्षमिति | भावः । ब्रह्माद्वैतप्रत्यक्षं मिथ्या क्षणिकज्ञानाद्वैतप्रत्यक्षं सत्यमिति तु स्ववासनामात्रम् , कूटस्थानतिशायित्वमिति(१३२-१-३) य एव नित्यैकान्तपक्षे दोषास्त एव क्षणिकपक्षेऽपीति भावः। किश्च करणाकरणयोस्तजातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्यभ्युपगमे क्षणिकत्वं सिध्येत् , स चैकव्यक्तावप्यविरुद्धस्ततश्च तावनादृत्य कारणगतवैजात्यकल्पनमप्रामाणिकमन्यथा कारणवत्कार्येऽपि किश्चिद्वैजात्यं स्यात् , यद्वतः कारणापेक्षा स्यान्नतु दृष्टजातीयस्येति शङ्कया न नियतप्रवृत्तिसिद्धिरेवं चावह्वेरपि धूमसम्भावनया गतं कार्यलिङ्गकेन सङ्कीर्यते च कारणगता कुर्वदूपत्वाख्या विधिरूपा व्यावृत्तिरूपा वा जातिर्दण्डत्वादिना परस्परपरिहारवत्योश्च समावेशे गोत्वाश्वत्वयोरपि तथाभावप्रसङ्ग इति गतमनुपलब्धिलिङ्गकेनापि क्वचिदपि विरोधासिद्धेस्ततो विपक्षे बाधकाभावात् स्वभावहेतुरप्यपास्तः । अथास्ति तत्तथा हि वृक्षजनकपत्रकाण्डाद्यन्तर्भूता शिंशपासामग्री सा वृक्षत्वमतिपत्य भवन्ती स्वकारणमेवातिपतेदिति चेत् , तर्हि शिंशपासामग्र्यन्तर्भूता चलदलादिसामग्री तामतिपत्य चलरूपता भवन्ती स्वकारणमेवातिपतेदिति तुल्यम्, नोदनाद्यागन्तुकनिबन्धनं चलत्वं न तद्विशेषमात्राधीनमिति चेत् , यदि नोदनादयः स्वभावभूतास्तदा तद्विशेषा एव, अथास्वभावभूतास्ततः सहकारिण एव, तथा च तास्तानासाद्य निर्विशेषैव शिंशपाचलखभावत्वमारभत इति कुतः क्षणिकत्वसिद्धिः, स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद्भवन्तीति चेत्, तर्हि वृक्षसामय्यामागन्तुकसह
+
4554
For Private And Personal Use Only