________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shil Kalassagarsur Gyanmandir
अष्टसहस्री
विवरणम् ॥
परिच्छेदः प्रथमः॥
॥१२८॥
न्तम् , इत्थं च यावतां सत्चे रासभाधिकरणक्षणोत्तरक्षणे घटसत्त्वं तावतां सत्वे तं विना घटासत्त्वं नास्तीति नातिप्रसङ्गः, घटसत्त्वकालीनयावद्व्यक्तिनिविष्टदण्डादिसवकालेऽसत्त्वस्यासम्भवाद् भिन्नास्वित्यन्तम् , यत्तु मङ्गलाभावरूपविघ्नहेतुमतिमङ्गलतद्व्याप्येतस्यावद्विघ्नहेतुसमवधानकाले मङ्गलसत्त्वस्यासम्भवात् स्वाभावभिन्नास्वित्यपि विशेषणीयमिति, तन्न, स्वस्वव्याप्येतरयावद्व्यक्तिसत्त्वे मङ्गलसत्त्वे विघ्नप्रामभावस्तावत्सच्चे मङ्गलासचे विघ्नप्रागभावाभावस्य सत्त्वेन तद्विशेषणानौचित्यात्, न बत्र खखव्याप्येतरयावद्विनहेतुत्वेन निवेश इति, तन्न, यावतां सत्वे दण्डसत्त्वे घटसत्वं तावतां सत्त्वे दण्डासत्वे घटासत्त्वस्यासम्भवात् , घटप्राकालोत्पत्तिकानामुदासीनानन्तसंयोगविभागतत्तदकुरादीनामन्यदाभावात् , यावत्पदस्येच्छोपगृहीतयावत्परत्वे रासभाधतिप्रसङ्गात् , चक्रादियावत्सच्चे रासभसत्वे दण्डसमवधाने घटसचात्तदसमवधाने घटासवाच, तस्माद् यादृशसमूहसत्वे सव्यापारयत्सत्त्वेऽग्रिमक्षणेऽवश्यं कार्य तादृशसमूहसच्चे सव्यापारयव्यतिरेके चावश्यं कार्यव्यतिरेकस्तत्तस्य साधनमित्येवं योगक्षेमसाधारण्याः कारणताया लक्षणं वाच्यम् , भवति हि चक्रादिसमूहसत्त्वे सव्यापारदण्डसत्वेऽग्रिमक्षणे घटसत्त्वं सव्यापारदण्डव्यतिरेके घटव्यतिरेकस्तथा मङ्गलाभावेतरविघ्नहेतुसमूहसवे मङ्गलसत्त्वे विघ्नप्रागभावस्तदभावे तदभावः। तत्पापवृत्तिलाभयोग्यसमयादिसमूहसत्त्वे सव्यापारप्रायश्चित्तसत्त्वेऽग्रिमक्षणे दुःखप्रागभावसत्वं सव्यापारप्रायश्चित्ताभावे दुःखप्रागभावाभाव इति, इत्थं च समूहान्वयव्यतिरेकग्रहानन्तरं प्रत्येकान्वयव्यतिरेकग्रहस्य प्रत्येककारणताग्राहकत्वं नाप्रामाणिकमिति नियूंढम् । एतन्निवृत्तौ (११) प्रकृतकारणनिवृत्तौ, यदृच्छासंवादः साहचर्यमात्र नतु नियमः, कारणतालक्षणे च नियमः प्रविष्ट इति नातिप्रसङ्ग इति भावः। त्रिविधेनेति (१२२-२-१) देशकालस्वभावभेदभिनेत्यर्थः। अनात्मरूपप्रतिभास
॥१२८॥
For Private And Personal Use Only