SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ ॥१२७॥ परिच्छेदः प्रथमः॥ नभ्युपगमादित्यर्थः । 'सुस्थिताविति' (१२१-१-२) बहुव्रीहिणा सुस्थितायामित्यर्थः । प्रसक्तेरिति (३) वाद्युक्तहेतौ विरुद्धत्वाद्युद्भावन एव कृतार्थत्वाभिमाने ततो जयः स्वपरिगृहीतपक्षासिद्ध्या च पराजय इत्येवमुभयं स्थादित्यर्थः। प्रतिपत्तिविशेषप्रयोजनभेदात् पक्षप्रतिपक्षपरिग्रहावैयऱ्या व्यतिरेकेण द्रढयितुमाह 'नहीत्यादि(३) तद्विघाताहेतुत्वात् (४) स्वपक्षसिद्धिप्रतिपक्षसिद्ध्यननुकूलत्वात् 'प्रतिपाद्येत्यादि' (४) व्याप्त्यभिधानमात्राद् यस्य न साध्यसिद्धिस्तं प्रति प्रतिज्ञादिवचनमप्यदुष्टं पुरुषविशेष प्रत्यसिद्धस्यैव ततः सिद्धरित्थमेव प्रतिपाद्याशयानुरुद्धप्रतिपत्तिविशेषसिद्धये पक्षप्रतिपक्षपरिग्रहः कथायामदुष्ट इति भावः। अत एव पश्चावयवप्रयोगेऽपि यस्य न कण्टकोद्वारं विना साध्यप्रतिपत्तिस्तं प्रति दशावयवप्रयोगोऽपिजीर्णनैयायिकैः स्वीक्रियत इति मन्तव्यम् । तत्रापि (११) वादेऽपि, तेषां शास्त्रकाराणाम् , तादृशत्वात् प्रतिपाद्याविबोधनार्थव्यापृतत्वात् , तत्र (१२) शास्त्रादौ, जिगीषवो न हि न प्रतिपाद्या (१२) न बोधनीयाः किन्तु प्रतिपाद्या एव, चालनारूपव्याख्यानभेदे तत्र शिष्याणां विजिगीषुताया अपि सम्भवात् , यथा यथा वामं वामेन वर्ते तथा तथा सूत्रमथं तदुभयं वा लभे इत्यादेः केशिप्रदेशिसम्बन्धे प्रसिद्धत्वादिति भावः। जिगीषुमात्रप्रतिपाद्यत्वे प्रतिज्ञाया अप्रयोगः स्यादित्यत्राह, 'शास्त्रादावित्यादि' (१३) न स्यादिति (१२१-२-१) इत्यनन्तरं विभाव्यते तदेतिशेषः, कथमिवेति (३) किंवृत्ती, इवशन्दप्रयोगः शब्दालङ्करणहेतुर्यथा “आवर्जिता किश्चिदिव स्तनाभ्याम्" इत्यत्र, कथं सन्धामतिशेते (३), न युक्तमेतदित्यर्थः । तावतार्थप्रतिपत्तावित्यादि(४), यथाऽस्माकं प्रतिज्ञानिगमनादिवचनमधिकवचनत्वान्निग्रहस्थानं त्वया प्रतिपाद्यते तथा तवापि हेतोः समर्थनमधिकवचनत्वानिग्रहस्थानमायाति, साध्यसिद्धेविपक्षव्यावृत्तिलक्षणहेतोरेव भावादित्यर्थः । गम्यमान ॥१२॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy