________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ १२३ ॥
www.kobatirth.org
मर्थनं च तदन्तरेणापि त्रिलक्षणवचनस्य साधनाङ्गत्वसिद्धौ प्रतिज्ञादिवचनस्य साधनाङ्गत्वसिद्धेरन्यथा तस्य प्रतिज्ञादिवचनवदपजयप्राप्तिनिबन्धनत्वप्रसक्तेः । ततस्तद्वयाहति परिजिहीर्षता गम्यमानस्यापि वचनं नासाधनाङ्गवचनं वादिनो निग्रहाधिकरणमिति प्रतिपत्तव्यम् । नन्वेवमप्रस्तुतस्यापि नाटकादिघोषणस्य द्वादशलक्षणप्ररूपणस्य वा निग्रहाधिकरणत्वं न स्यादिति चेत्, एवमेतत् । तथान्यस्यापि प्रस्तुतेतरस्य वादिनोक्तावितरस्य स्वपक्षमसाधयतो विजयासंभवान्निग्रहस्थानमयुक्तम् । स्वपक्षं साधयतस्तु तत्सिद्ध्यैव विजयसंभवादितरस्य पराजयप्राप्तेर्ना प्रस्तुतादिवचनं निग्रहस्थानम् । साधनाङ्गस्यावचनं वादिनो निग्रहस्थानं स्वेष्टसाधनवचनमभ्युपगम्याऽप्रतिभयातूष्णींभावादित्यभ्यनेन प्रत्युक्तम् । प्रतिवादिनोप्यदोषोद्भावनं दोषस्यानुद्भासनं वानेन प्रत्युक्तम्, न्यायस्य समानत्वात् । किमेवं वादिना कर्तव्यमिति चेत्, विजिगीषुणोभयं कर्तव्यं स्वपरपक्षसाधनदूषणम् । ततः किमिति चेत्, अतोन्यतरेणासिद्धानैकान्तिकवचनेऽपि जल्पापरिसमाप्तिः, कस्यचित्स्वपक्षसिद्धेरभावात् । कथं तर्हि वादपरिसमाप्तिर्वादिप्रतिवादिनोरिति चेत्, निराकृतावस्थापितविपक्षस्वपक्षयोरेव जयेतरव्यवस्था, नान्यथा । तदुक्तम् । “स्वपक्षसिद्धिरेकस्य निग्रहोऽन्यस्य वादिनः । नासाधनाङ्गवचनं नादोषोद्भावनं द्वयोः ॥ १ ॥ " इति । तथा तत्त्वार्थश्लोकवार्त्तिकेऽप्युक्तम् " स्वपक्षसिद्धिपर्यन्ता शास्त्रीयार्थविचारणा । वस्त्वाश्रयत्वतो यद्वलौकिकार्थविचारणा ॥ १ ॥ " इति । इति दर्शयन्नुभयमाह ग्रन्थकारः श्रीस्वामिसमन्तभद्राचार्यः । " स त्वमेवासि निर्दोषः " इति, " त्वन्मतामृतबाह्यानाम् ", इत्यादि च गम्यमानस्यापि वचने दोषाभावात् ॥ ७ ॥ ननु च सर्वधैकान्तवादिनामपि कुशलाकुशलस्य कर्मणः परलोकस्य च प्रसिद्धेराप्तत्वोपपत्तेर्महत्वं किं नः स्तुतमित्याशङ्कायामिदमाहुः -
चित्रज्ञान इत्यादि (११७-१-६ ) किं स्यादिति ( ११७-१-१२) साऽनुभूयमाना चित्रता नीलपीताद्याकार
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ १२३ ॥