________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्त्री विवरणम् ॥
8A525E
परिच्छेद: प्रथमः॥
॥१२१॥
प्रतिज्ञादिप्रयोगो न स्यात् इति विशेषाभावादेव शास्त्रादौ वादे च प्रतिज्ञादेरभिधानमनभिधानं वाभ्युपगन्तव्यमविशेषेणैव । ननु च प्रतिज्ञायाः प्रयोगेपि हेत्वादिवचनमन्तरेण साध्याप्रसिद्धेळी प्रतिज्ञा हेत्वादिवचनादेव च साध्यप्रसिद्धेनिंगमनादिकमकिञ्चित्करमेवेति कश्चित् , सोऽपि यत्सत्तत्सर्व क्षणिक, यथा घटः, संश्च शब्द इति त्रिलक्षणं हेतुमभिधाय यदि समर्थयते, कथमिव सन्धामतिशेते ?, स्वहेतुसमर्थनमन्तरेण तदभिधानेपि तदर्थाप्रतिपत्तेः। तावतार्थप्रतिपत्तौ समर्थन वा निगमनादिकं कथमतिशयीत ?, अकिञ्चित्करत्वाविशेषात् , यतः पराजयो न भवेत् , ताथागतस्य हेत्वाद्यभिधाने तत्समर्थनाभिधाने वा । हेत्वाद्यनभिधाने कस्य समर्थन मिति चेत् , तथा सन्धाया अप्यनभिधाने क हेत्वादिः प्रवर्तताम् ? गम्यमाने प्रतिज्ञाविषये एवेति चेत् , गम्यमानस्य हेत्वादेः समर्थनमस्तु । गम्यमानस्यापि हेत्वादेर्मन्दप्रतिपत्त्यर्थ वचनमिति चेत् , तथा सन्धावचने कोऽपरितोषः ?, स्यान्मतं, समर्थनं नाम हेतोः साध्येन व्याप्ति प्रसाध्य धर्मिणि भावसाधनम् । यथा यत्सत् कृतकं वा तत्सर्वमनित्यं यथा घटादिः, सन् कृतको वा शब्द इति । सन् कृतको वा शब्दः, यश्चैवं स सर्वो नश्वरो यथा घटादिरिति वा, प्रयोगक्रमनियमाभावादिष्टार्थसिद्धरुभयत्राविशेषात् , प्राक् सत्त्वं धर्मिणि प्रसाध्य साधनस्य पश्चादपि साध्येन व्याप्तिप्रसाधनस्याविरोधात् । व्याप्तिप्रसाधनं पुनर्विपर्यये बाधकप्रमाणोपदर्शनम् । यदि पुनः सर्व सत्कृतकं वा प्रतिक्षणविनाशि न स्यान्नित्ये क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्। अर्थक्रियासामध्यं सत्त्वलक्षणमतो व्यावृत्तमित्यसदेव तत्स्यात्। सर्वसामोपाख्याविरहलक्षणं हि निरुपाख्यमिति। एवं साधनस्य साध्यविपर्यये बाधकप्रमाणानुपदर्शने विरोधाभावादस्य विपक्षे नित्ये वृत्तेरदर्शनेऽपि सन् कृतको वा स्यान्नित्यश्चेत्यनिवृत्तिरेव शङ्कायाः। ततो व्यतिरेकस्य सन्देहादनैकान्तिको हेत्वाभासः स्यात् । न ह्यदर्शनमात्रा व्यावृत्तिः, विप्रकृष्टेष्वर्थेष्वसर्वदर्शिनोऽदर्शनस्याभावासाधनात् , अाग्दर्शनेन सतामपि केषाश्चिदर्थानामदर्शनात् | बाधकं पुनः
M१२१॥
For Private And Personal Use Only