________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अष्टसहस्री| विवरणम् ॥ ॥१२०॥
परिच्छेदः माप्रथमः॥
SELOROSSOCKST
वेत्ति स तद्गुणमपि, कुतश्चिन्मारणशक्तौ विदितायामपि विषद्रव्यस्य कुष्टापनयनादिशक्तौ वेदनानुदयात् । ततो न जयः पराजयो वा स्यात् । स्यान्मतं 'साधनवादिना साधु साधनं वक्तव्यं दूषणवादिना च तदृषणम् । तत्र वादिनः प्रतिवादिना सभायामसाधनाङ्गवचनस्योद्भावने साधु साधनाभिधानाज्ञानसिद्धेः पराजयः प्रतिवादिनस्तु तहषणज्ञाननिर्णयाजयः स्यात्' इति, तदप्यपेशलं, विकल्पानुपपत्तेः । स हि प्रतिवादी निर्वोपसाधनवादिनो वचनाधिक्यमुद्भावयेत्साधनाभासवादिनो वा ? प्रथमविकल्पे वादिनः कथं साधनस्वरूपाज्ञानम् ? तवचने इयत्ताज्ञानस्यैवाभावात् । द्वितीयविकल्पे तु न प्रतिवादिनो दूषणज्ञानमवतिष्ठते, साधनाभासस्यानुद्भावनात्तद्विज्ञानासिद्धेः । तद्वचनाधिक्यदोषस्य ज्ञानापणज्ञोऽसाविति चेत्, साधनाभासाज्ञानाददूषणज्ञोपीति नैकान्ततो वादिनं जयेत् , तददोषोडाबनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः । अथ वचनाधिक्यदोषोद्भावनादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्धावनमनर्थकमिति मन्यसे, नन्वेवं साधनाभासानुक्नात्तस्य पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्प्येत ? यदि पुनः साधनाभासं वचनाधिक्यं चोद्भावयन्प्रतिवादी जयतीति मतं तदास्य महती द्विष्टकामिता, साधर्म्यवचनादेवार्थगतौ वैधर्म्यवचनमनर्थकत्वाद्विष्ट्वा साधनाभासोद्भावनादेव परस्य न्यक्कारसिद्धौ तद्वचनाधिक्योद्भावनस्यानर्थकस्यापि कामितत्वात् । अथ न वचनाधिक्यमात्रंद्विष्यते, अर्थादापन्नस्य स्वशब्देनाभिधानस्य द्विष्टत्वादिति मतं तदपि न सङ्कतं, निगमनवचनदोषस्य प्रतिज्ञावचनदोषोद्भावनाद्गतस्यानुद्भावनप्रसङ्गात्। प्रतिज्ञायाः पुनर्वचनं हि निगमनम्। तच्च प्रतिज्ञावचनस्य दुष्टत्वप्रतिपत्तौ दुष्टं सामर्थ्यात्प्रतीयते एव । अथार्थादापन्नस्यापि निगमनवचनदुष्टत्वस्योद्भावनमदोषोद्भावनभयादभिमन्यते तर्हि साधर्म्यवचनाद्वैधर्म्यस्यार्थायातस्याप्यसाधनाङ्गवचनभयादभिधानं मन्यता, विशेषाभावात् । न हि साधर्म्यमेव वा साधनस्याङ्ग, पक्षधर्मत्वक्त्तदुभयस्यापि साधनाङ्गत्वात, साधनस्य त्रिरूपत्वप्रतिज्ञानात् ।
मा॥१२०॥
For Private And Personal Use Only