________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
है।'अप्रतिसंविदिताकारेत्यादि ' (१०७-१-३) इच्छायाः स्वसमानाधिकरणज्ञानविषयत्वनियमेनाज्ञाततदसम्भव इत्यर्थः ।
तदनियम एवेति (१०७-१-१३) वागादिप्रवृत्तेरिच्छापूर्वकत्वानियम एवेत्यर्थः। ननु वचनमात्रे विवक्षाया हेतुत्वात्तनियमो भविष्यतीत्यत आह, 'ततश्चैतन्येत्यादि' (१०७-१-१३) चैतन्यकरणपाटवे तावद्वचनं प्रतिनियतो हेतुः, विवक्षातु कण्ठाद्यभिघातजनकप्रवृत्तिजनकेच्छाजनकेष्टसाधनताज्ञानविषयस्येष्टतासम्पादनार्थ क्वचिदुपयुज्यमाना न नियतहेतुर्वचनहेतोः कण्ठा
द्यभिघातस्य विनापीच्छां गोत्रसङ्कलनादावदृष्टविशेषादुपपत्तेस्तद्वदेव वीतरागस्याप्यनाकूतवाचस्तीर्थकरनामकर्मोदयसामर्थ्याद दुपपत्तेरिति निगर्वः। ननु सुषुप्तावनाकूतवाचो दोषमहिम्नेव दर्शनाद्दोषजातेर्वाग्धेतुत्वं स्यात्तथा च न निर्दोषस्य सर्वस्य तदुपपत्ति| रित्याशङ्कथाह भाष्यकृत, 'नचेत्यादि' (१०७-२-४) वाक्प्रकर्षापकर्षयोर्दोषजातिप्रकर्षापकर्षाननुविधायित्वान्न तस्यास्तधेतुत्वमिति भावः । वाञ्छन्तो वेति (१०७-२-८) वा शब्दोऽप्यर्थः, वक्तुमित्यध्याहार्यम् । तथा च वक्तुं वाञ्छन्तोऽपि मन्दबुद्धयः शास्त्राणां वक्तारो न भवन्तीति विवक्षावचनेन नियतहेतुरिति नियूँढं भाष्ये, वाधनमिति (१०७-२-१०) करणे नद् बाधकमित्यर्थः। परमतापेक्षमिति (१०७-२-१०) परमतत्वस्य वस्तुतः प्रसिद्धत्वाभावादित्यर्थः । परमतप्रसिद्धेनैकान्तनित्यत्वादिना त्वदिष्टमनेकान्ततत्त्वं न बाध्यते तत्प्रसिद्धेरप्रामाण्यशङ्काकलङ्कितत्वात् , त्वदिष्टतत्वे च विपर्यये व्याघातदण्डभयेनैव विरोधिशङ्कानुत्थानादिति निर्गलितोऽर्थः, 'तद्व्यवच्छेदनार्थमपीति' (१०७-२-१४) अध्यक्षं हि स्खलक्षणविषयत्वेन प्रमाणम् , अनुमानं तु समारोपव्यवच्छेदकत्वेन च योगिप्रत्यक्षस्यानुमानमूलव्याप्तिग्राहकत्वाभ्युपगमे तत एव समारोपनिवृत्तौ क्वचिदनुमानप्रमाणप्रवर्त्ततेत्यपेरर्थः, पूर्वापरेति (१०८-१-१) पूर्व कारणमपरं कार्य तयोः परामर्शस्तद्ज्ञान
For Private And Personal Use Only