________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ ११४ ॥
www.kobatirth.org
हेतुत्वात्तद्विरोधितत्वज्ञानस्यैवोक्तसमाधिद्वारा मुक्तिहेतुत्वमिति वाच्यम् । उक्तसमाधिरपि मुक्तिवत्कालान्तरभावित्वेन तत्रापि कर्मनिर्जराद्वारा ज्ञानस्य हेतुत्वे कल्पनीये मुक्तावेव ज्ञानकर्मणोस्तुल्यवत् समुच्चयबोधकागमेन ज्ञानवत्तथा चारित्रस्यापि हेतुताया अवर्जनीयत्वात् । न च "ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन" इति वचनात् सञ्चितकर्मनाशे ज्ञानमेव कारणं प्रारब्धनाशस्तु भोगादेव, क्रियमाणं तु योगिकर्ममिथ्याज्ञानवासनाभावान्नादृष्टोत्पादकमिति न क्वापि चारित्रोपयोग इति शङ्कनीयम्, ज्ञानाग्निरित्यादेर्ज्ञानस्तुतिमात्रपरत्वात्, सङ्कोचावश्यकत्वे ज्ञानचारित्रयोः स्वस्वजन्य कर्मनाशे पृथग्धेतुत्वावश्यकत्वाद्विना चारित्रव्यापारमौपक्रमिकफलोपभोगस्य कथमप्यनुपपत्तेः, सम्मतश्चायमर्थः, “तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुंसः पुरुषस्य तथा मलम् " ॥ १ ॥ इत्यादि वाशिष्टग्रन्थादिनापि, नयवादास्तु तपःसंयमज्ञानानां मुक्तिहेतुत्वे भिन्नरुचिरूपतयैव व्यवतिष्ठन्ते, तथा च पारमर्षम् । “तवसंजमो अणुमओ णिग्गंथं पवयणं च ववहारे । सहुज्जुसुआणं पुण णिवाणं संजमो चैवत्ति" ॥ १ ॥ अलमतिविस्तरेण, गुणानां (१०५ - २ - ७) महदादिपरिणामानाम्, संसारोपपत्तेः (१०५ - २ - ७) संसारसम्भवदर्शनात् परेषां (१०५ - २ - ८) सांख्यानाम् संवृत्या ( १०५ - २ - ८) उपचारमात्रेण, तत्कारणः (१०५ - २ - ८) तन्मात्रकारणकः, तेन नोपक्रमोपसंहारविरोधः, कारणं चात्रोपादानरूपं ग्राह्यं तेन न वक्ष्यमाणव्याप्यनुपपत्तिः, सिद्धान्ते मिथ्याज्ञानाविरत्यादिनानासंसारोपादानाभ्युपगमेऽपि तद्विशिष्टात्मनः कारणस्यैकत्वान्न काप्याशङ्का, पर्यायार्थतया नानोपादानत्वस्य द्रव्यार्थतयैकोपादानत्वस्य चाविरोधादिति द्रष्टव्यम् । भाष्ये कैमर्थक्येति ( १०६-१-२) मत्वर्थीयाचा किमर्थेत्यर्थः । विशेषेष्टैर्विशेषणमेतद्रष्टव्यम् । तत्र सुगतादौ साङ्कर्यम् (१०६ - १ - ४) अन्यत्र परिदृष्टजातीयत्वम्, विचित्राभिसन्धितानु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः
प्रथमः ॥
॥ ११४ ॥